SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ स्थानं ८, भगवतो महावीरस्य वन्दनार्थमवततार नाट्यविधिं चोपदर्शयामास, यत्र च प्रदेशिराजचरितं भगवता प्रत्यपादीति, तथा शिवः हस्तिनागपुरराजो, यो ह्येकदा चिन्तयामास अहमनुदिनं हिरण्यादिना वृद्धिमुपगच्छामि यतस्ततोऽस्ति पुराकृतकर्म्मणां फलमतोऽधुनापि तदर्थमुद्यच्छामीति, ततो व्यवस्थाप्य राज्ये पुत्रं कृत्वोचितमखिलकर्त्तव्यं दिक्प्रोक्षिततापसतया प्रवव्राज, ततः षष्ठंषठेन तपस्यतस्तथोचितमातापयतः परिशटितपत्रादिना पारयतो विभङ्गज्ञानमुत्पेदे, तेन च विलोकयाञ्चकार सप्त द्वीपान् सप्त समुद्रानिति, उत्पन्नं च मे दिव्यज्ञानमित्यवष्टम्भादागत्य नगरे बहुजनस्य यथोपलब्धं तत्त्वमुपदिदेश, तदा च तत्र भगवान् विजहार गौतमश्च भिक्षां भ्राम्यन् जनाच्छिवप्ररूपणां शुश्राव, गत्वा च भगवन्तं प्रपच्छ, भगवांस्त्वसङ्घयेयान् द्वीपसमुद्रान् प्रज्ञापयामास, भगवद्वचनं च जनात् श्रुत्वा शिवः शङ्कितः, ततस्तस्य विभङ्गः प्रतिपपात, ततोऽसौ भगवति जातभक्तिर्भगवत्समीपं जगाम, ४६९ स भगवता प्रकटिताकूतो जातसर्वज्ञप्रत्ययः प्रवव्राज, एकादश चाङ्गानि पपाठ सिद्धश्चेति, तथा उदायनः सिन्धुसौवीरादीनां षोडशानां जनपदानां वीतभयप्रमुखानां त्रयाणां त्रिषष्ट्यधिकानां नगरशतानां दशानां च मुकुटबद्धानां राज्ञां स्वामी श्रमणोपासकः, येन चण्डप्रद्योतमहाराज उज्जयनी गत्वा उभयबलसमक्षं रणाङ्गणे रणकर्म्मकुशलेन करिवरगिरेर्निपात्य बद्धो मयूरपिच्छेन ललाटपट्टे अड्किगतश्च, तथाऽभिजिन्नामानं स्नेहानुगतानुकम्पया राज्यगृद्धोऽयं मा दुर्गतिं यासीदिति भावयता स्वपुत्रं राज्ये अव्यवस्थाप्य केशिनामानं च भागिनेयं राजानं विधाय महावीरसमीपे प्रवव्राज, यश्चैकदा तत्रैव नगरे विजहार, उत्पन्नरोगश्च वैद्योपदेशाद्दधि बुभुजे राज्यापहारशङ्किना च केशिराजेन विषमिश्रदधिदापनेन पञ्चत्वं गमितः यद्गुणपक्षपातिन्या च कुपितदेवतया पाषाणवर्षेण कुम्भकारशय्यातरवर्जं सर्वं तन्नगरं न्यघातीति, तथा शङ्खः काशीवर्द्धनो वाणीरसीनगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः, अयं च न प्रतीतः, केवलमलकाभिधानो राजा वाराणस्यां भगवता प्रव्रजितोऽन्तकृद्दशास्तु श्रूयते स यदि परं नामान्तरेणायं भवतीति ॥ एते चाहारादौ मनोज्ञामनोज्ञे समवृत्ताय इति प्रस्तावादाहारस्वरूपमाह मू. (७३३) अट्ठविहे आहारे पं० तं० मणुन्ने असणे पाणे साइमे साइमे अमणुन्ने जाव साइमे । वृ. 'अट्ठिवहे त्यादि सुगमं । आहारद्रव्याणि रसपरिणामविशेषवन्त्यमनोज्ञान्यनन्तरमुक्तान्यथ क्षेत्रविशेषान् पुद्गलतवर्णपरिणामविशेषवत्त्वेनामनोज्ञानं कृष्णराज्यभिधानान् प्रतिपादयन् सूत्रपञ्चकमाह मू. (७३४) उप्पिं सणकुमारमाहिंदाणं कप्पाणं हेट्ठि बंभलोगे कप्पे रिट्टविमाणे पत्थडे एत्थ नमक्खाडगसमचउरंससंठाणसंटितातो अट्ठ कण्हरातीतो पं० तं० पुरच्छिमेणं दो कण्हरातीतो दाहिणेणं दो कण्हराइओ पच्चच्छिमेणं दो कण्हराइओ उत्तरेणं दो कण्हराइओ, पुरच्छिमा अव्यंतरा कण्हराती दाहिणं बाहिरं कण्हराई पुट्ठा, दाहिणा अब्भंतरा कण्हराती पञ्चच्छिमगं बाहिरं कण्हराई पुट्ठा, पच्चच्छिमा अब्भंतरा कण्हराती उत्तरं बाहिरं कण्हराई पुट्ठा, उत्तरा अब्यंतरा कण्हराती पुरच्छिमं बाहिरं कण्हराती पुट्ठा, पुरच्छिमपच्चच्छिमिल्लाओ बाहिराओ दो कण्हरातीतो छलंसातो, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy