________________
४६८
स्थानाङ्ग सूत्रम् ८/-/७२८
बृ. संयमवदधिकारात् संयमवतामेवाष्टकान्तरमाह - 'पासे' त्यादि व्यक्तं, किंतु 'पुरिसादानीयस्स' त्ति पुरुषाणां मध्ये आदीयत इत्यादानीय उपादेय इत्यर्थः, गणा-एकक्रियावाचनानां साधूनां समुदायाः गणधराः - तन्नायका आचार्याः भगवतः सातिशयानन्तरशिष्याः, आवश्यके तूभयेऽपि दश श्रूयन्ते, "दस नवगं गणाण माणं जिणिंदाणं" इति वचनात् 'वइया जस्स गणा तावइया गणहरा तस्से' ति वचनाञ्च तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमिति सम्भाव्यते, न चाष्टस्थानकानुरोध इह समाधनं वक्तुं शक्यते, पर्युषणाकल्पेऽप्यष्टानामेवभिधानादिति ॥ गणधराश्च दर्शनवन्त इति दर्शनं निरूपयन्नाह
मू. (७२९) अट्टविधे दंसणे पं० तं० सम्मद्दंसणे मिच्छदंसणे सम्मामिच्छदंसणे चक्खुदंसणे जाव केवलदंसणे सुविणदंसणे ।
वृ. 'अट्ठविहे दंसणे' इत्यादि कण्ठ्यं, केवलं स्वप्नदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित इति । सम्यग्दर्शनादेश्च स्थितिप्रमाण मौपम्याद्धया भवतीति तां
प्ररूपयन्नाह
मू. (७३०) अट्ठविधे अद्धोवमिते पं० तं०- पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतद्धा अनागतद्धा सव्वद्धा ।
वृ. 'अट्ठविहे अद्धोवमिए' इत्यादि सुगमं, नवरं औपम्यमुपमा पल्यसागररूपा तत्प्रधाना अद्धा कालोऽद्धौपम्यं राजदन्तादिदर्शनात् पल्येनोपमा यत्र काले परिमाणतः स पल्योपमं रूढितो नपुंसकलिङ्गता, एवं सागरोपमं, अवसर्पिण्यादीनां तु सागरोपमनिष्पन्नत्वादुपमाकालत्वं भावनीयं, समयादिस्तु शीर्षप्रहेलिकान्तः कालोऽनुमाकाल इति । कालाधिकारादिदमपरमाह
भू. (७३१) अरहतो णं अरिट्ठनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी दुवासपरियाते अंतमकासी ।
वृ. 'अरहओ इत्यादि, जाव अट्ठमाउ' त्ति अष्टमं पुरुषयुगं - अष्टपुरुषकलं यावत् युगान्तकरभूमिः पुरुषलक्षणयुगापेक्षयाऽन्तरकराणां भवक्षयकारिणां भूमिः कालः सा आसीदिति, इदमुक्तं भवति-नेमिनाथस्य शिष्यप्रशिष्यक्रमेणाष्टौ पुरुषान्यावन्निर्वाणं गतवन्तो न परत इति, तथा पर्यायापेक्षयाऽप्यन्तकरभूमिः प्रसङ्गादुच्यते- 'दुवास 'त्ति द्विवर्षमात्रे केवलिपर्याये नेमिनाथस्य जाते सति साधवो भवान्तमकार्षुरिति । तीर्थकरवक्तव्यताधिकारादिदमाह
मू. (७३२) समणेणं भगवता महावीरेण अट्ट रायाणो मुंडे भवेत्ता अगारातो अनगारितं पव्वाविता, तं०-वीरंगय वीरजसे संजयएणिजते य रायरिसी । सेयसिवे उदायणे (तह संखे कासिद्धणे
वृ. 'समणेण 'मित्यादि सुगमं, नवरं 'भक्त्ति 'त्ति अन्तर्भूतकारितार्थत्वात् मुण्डान् भावयित्वेति दृश्यं, 'वीरंगए' इत्यादि 'तह संखे कासितवद्धणए' इत्येवं चतुर्थपादे सति गाथा भवति, न चैवं दृश्यते पुस्तकेष्विति, एते च यथा प्रब्राजितास्तथोच्यते, तत् वीराङ्गको वीरयशाः संजय इत्येते प्रतीताः, एणेयको गोत्रतः, स च केतकार्द्धजनपदश्वेतंबीनगरीराजस्य प्रदेशिनाम्नः श्रमणोपासकस्य निजकः कश्चिद्राजर्षिः,
तथा सेये आमलकल्पनानगर्याः स्वामी, यस्यां हि सूर्यकाभी देवः सौधर्मात् देवलोकाद्,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International