SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४६० स्थानाङ्ग सूत्रम् ८/-/७०९ - ‘आहारव’न्ति अवधारणावान् आलोचकेनालोच्यमानानामतीचाराणामिति, आह च “आयारवमायारं पंचविहं मुणइ जो अ आयरइ । आहारवमवहारे आलोइंतस्स सव्वंति ॥" ॥१॥ 'ववहारवं 'ति आगमश्रुताज्ञाधारणाजीतलक्षणानां पञ्चानामुक्तरूपणां व्यवहाराणं ज्ञातेति, 'ओवीलए' त्ति अपव्रीडयति-विलज्जीकरोति यो लज्जया सम्यगनालोचयन्तं सर्वं यथा सम्यगालोचयति तथा करोतीत्यपव्रीडकः अभिहितं च - 11911 "ववहारव ववहारं आगममाई उ मुणइ पंचविहं । ओवीलुवगूहतं जह आलोइए तं सव्वं ॥ " ति - 'पकुव्वए 'ति आलोचिते सति यः शुद्धिं प्रकर्षेण कारयति स प्रकारीति, भणितं च "आलोइयंमि सोहिं जो कारावेइ सो पकुव्र्वीओ ॥” इति, 'अपरिस्साइ' त्ति न परिश्रवतिनालोचकदोषानुपश्रुत्यान्यस्मै प्रतिपादयति य एवंशीलः सोऽपरिश्रावीति, यदाह - "जो अन्नस्स उ दोसे न कहेई य अपरिसाई सो होई ॥” इति, 'निज्जवए'त निर्यापति तथा करोति यथा गुर्व्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निर्यापक इति, न्यगादि च - "निज्जवओ तह कुणई निव्वहई जेण पच्छित्त "न्ति, 'अवायदसि' त्ति पायान् - अनर्थान् शिष्यचित्तभङ्गानिर्वाहादीन् दुर्भिक्षदौर्बल्यादिकृतान् पश्यतीत्येवंशीलः सम्यगनालोचनायां वा दुर्लभबोधकत्वादीन्, अपायान् शिष्यस्य दर्शयतीति अपायदर्शीति, भणितं च 119 11 - "दुभिक्खदुब्बलाई इहलोए जाणए अवाए उ। दंसेइ य परलोए दुल्लहबीहित्ति संसारे ॥” इति, 'अत्तदोस'त्ति आत्मापराधमिति, जातिकुले मातापितृपक्षौ, तत्सम्पन्नः प्रायोऽकृत्यं न करोति, कृत्वापि पश्चात्तापादालोचयतीति तद्ग्रहणं, यदाह - "जाईकुलसंपन्नो पायमकिच्चं न सेवई किंचि । आसेवितं च पच्छा तग्गुणो संममालीए ।' इति, 11911 मू. (७१०) अट्ठविहे पायच्छित्ते पं० तं० - आलोयणारिहे पडिक्कममणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेयारिहे मूलारिहे । वृ. विनयसम्पन्नः सुखेनैवालोचयति, तथा ज्ञानसम्पन्नोदोषविपाकं प्रायश्चित्तं वाऽवगच्छति, यतोऽवाचि - ॥१॥ "नाणेण उ संपन्नो दोसविवागं वियाणिउं घोरं । आलोएइ सुहं चिय पायच्छित्तं च अवगच्छे |" इति, दर्शनसम्पन्नः शुद्धोऽहमित्येवं श्रद्धत्ते, चारित्रसम्पन्नो भूयस्तमपराधं न करोति सम्यगालोचयति प्रायश्चित्तं च निर्वाहयतीति, उक्तं च - 11911 "सुद्धो तहत्ति सम्मं सद्दहई दंसणेण संपन्नो । चरण उ संपन्नो न कुणइ भुज्जो तमवराहं ॥” इति, क्षान्तः परुषं भणितोऽप्याचार्यैर्न रुष्यतीति, आह च " खंतो आयरिएहिं फरुसं ▾ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy