SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ स्थानं - ८, - आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता मध्यस्थवचनतेत्यर्थः ३ असन्दिग्धवचनता चेति ४, वाचनासम्पच्चतुर्द्धा तद्यथा - विदित्वोद्देशनं १ विदित्वा समुद्देशनं परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः २ परिनिर्वाप्य वाचना, पूर्वदत्तालापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः ३ अर्थनिर्यापणा, अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः ४, ४५९ मतिसम्पच्चतुर्द्धा, अवग्रहेहापायधारणाभेदादिति, प्रयोगसम्पच्चतुर्द्धा, इह प्रयोगो वादविषयस्तत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये १ पुरुषपरिज्ञानं किंनयोऽयं वाद्यादिः २ क्षेत्रपरिज्ञानं ३ वस्तुपरिज्ञानं वस्त्विह वादकाले राजामात्यादि ४, सङ्ग्रहपरिज्ञा सङ्ग्रहः-स्वीकरणं तत्र परिज्ञा-ज्ञानं नाम अभिधानमष्टमीसम्पत्, साच चतुर्विधा, तद्यथा - बालादियोग्यक्षेत्रविषया १ पीठफलकादिविषया २ यथासमयं स्वाध्यायभिक्षादिविषया ३ यथोचितविनयविषया चेति ४ ॥ आचार्या हि गुणरत्ननिधानमिति निधानप्रस्तावान्निधिव्यतिकरमाह — मू. (७०७) एगमेगे णं महानिही अट्ठचक्कवालपतिट्ठाणे अट्ठजोयणाई उड्डुं उच्चत्तेणं पन्नत्ते वृ. 'एके'त्यादि, एकैको महानिधिश्चक्रवर्त्तिसम्बन्धी अष्टचक्रप्रतिष्ठितः, मञ्जूषावत्, तत्स्वरूपं चेदम् 11911 Jain Education International "नवजोयणविचछिन्न बारसदीहा समूसिया अट्ठ । जक्खसहस्सपरिवुडा चक्कट्ठपइट्टिया नववि ।।" द्रव्यनिधानवक्तव्यतोक्ता, भावनिधानभूतसमितिस्वरूपमाह - मू. (७०८) अट्ठ समितीतो पं० तं० - इरियासमिति भासासमिति एसणा० आयाणमंडमत्त० उच्चारपासवण० मणस० वइस० कायसमिती | वृ. 'अट्ठ समिई' त्यादि, सम्यगितिः प्रवृत्तिः समितिः, ईर्यायां गमने समितिश्चक्षुव्यापारपूर्वतयेतीर्यासमितिः, एवं भाषायां निरवद्यभाषणतः एषणायामुद्गमादिदोषवर्जनत्ः, आदानेग्रहणेभाण्डमात्रायः-उपकरणमात्राया भाण्डस्य वा वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मात्रस्य च - साधुभाजनविशेषस्य निक्षेपणायां च समितिः सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेति, उच्चारप्रश्रवणखेलसिङ्घानजल्लानां पारिष्ठापनिकायां समितिः स्थण्डिलविशुध्यादिक्रमेण, खेलो-निष्ठीवनं सिंघानो-नासिका श्लेष्मेति, मनसः कुशलतायां समितिः वाचोऽकुशलत्वनिरोधे समितिः, कायस्य स्थानादिषु समितिरिति ॥ समितिष्वतिचारादावालोचना देयेत्यालोचनाचार्यस्यालोचकसाधोः प्रायश्चित्तस्य च स्वरूपाभिधानय सूत्रत्रयमाह - मू. (७०९) अट्ठहिं ठाणेहिं संपन्ने अनगारे अरिहति आलोतणा पडिच्छित्तए, तं० आतारवं आहारवं ववहारवं ओवीलए पकुव्वते अपरिस्साती निज्जावते अवातदंसी। अट्ठहिं ठाणेहिं संपन्ने अनगारे अरिहति अत्तदोसमालोइत्तते, तं० जातिसंपन्ने कुलसंपन्ने विनयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने खंते दंते । वृ. 'अट्ठही' त्यादि सुगमं, नवरं 'आयारवं' ति ज्ञानादिपञ्चप्रकाराचारवान् ज्ञानासेवनाभ्यां, For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy