SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४५८ स्थानाङ्ग सूत्रम् ८/-/७०२ विभूतिमती विविधभक्ष्यभोज्यचूष्यलेह्यपेयाद्याहारभेदयुक्ततया प्रचुरे भक्तपाने येषु तानि तथा, 'बहुदासीदासगोमहिसगवेलयप्पभूयाई' बहवो दासीदासा येषु तानि तथा गावो महिष्यश्च प्रतीताः गवेलका- उरभ्रास्ते प्रभूताः - येषु तानि तथा पश्चात्कर्म्मधारयः, अथवा बहवो दास्यादयः प्रभूता जाता येषु तानि तथा, बहुजनस्याप्यरिभूतानि अपरिभवनीयानीत्यर्थः, तृतीयार्थे वा षष्ठी, ततो बहुजनेनापरिभूतानि - अतिरस्कृतानि 'अज्ञ्जउत्ते' त्ति आर्ययोः - अपापकर्मवतोः पित्रोः पुत्रो यः स तथा, अनेनालोचकस्यानालोचकप्रत्याजातिविपर्यय उक्तः ॥ कृतालोचनाद्यनुष्ठानाश्च संवरवन्तो भवन्तीति संवरं तद्विपर्यस्तमसंवरं चाह मू. (७०३) अट्ठविहे संवरे पं० तं० - सोइंदियसंवरे जाव फासिंदियसंवरे मनसंवरे वतिसंवरे कायसंवरे, अट्ठविहे असंवरे पं० तं० - सोतिंदिअअसंवरे जाव काय असंवरे । वृ. 'अट्टविहे 'त्यादि सूत्रद्वयं कण्ठ्यं, अनन्तरं कायसंवर उक्तः, भू. (७०४) अट्ठ फासा पं० - कक्कडे मउते गरुते लहुते सीते उसिणे निद्धे लुक्खे । वृ. कायश्चाष्टस्पर्शो भवतीति स्पर्शसूत्रं, कण्ठ्यं चेति, स्पर्शाश्चाष्टावेवेति लोकस्थितिरियमितो लोकस्थितिविशेषमाह - मू. (७०५) अट्ठविधा लोगठिती पं० तं० - आगसपतिट्ठितै वाते १ वातपतिट्ठितै उदही २ एवं जघा छट्टाणे जाव जीवा कम्मपतिट्ठिता अजीवा जीवसंगहीता जीवा कम्मसंगहीता । वृ. 'अट्ठविहे 'त्यादि, कण्ठ्यं, 'एवं जहा छट्टाणे' इत्यादि, तत्र चैवं दधिपइट्ठिया पुहवी, घनोदधावित्यर्थः ३ पुढचिपइट्ठिया तसा थावरा पाणा मनुष्यादय इत्यर्थः ४ अजीवा जीवपइट्ठिया, शरीरादिपुद्गला इत्यर्थः ५ जीवा कम्मपइट्ठिया कर्मवशवर्त्तित्वादिति ६ अजीवाः पुद्गलाकाशादयो जीवैः सङ्ग्रहीताः स्वीकृताः अजीवान् विना जीवानां सर्वव्यवहाराभावात् ७ जीवाः कर्म्मभिःज्ञानावरणादिभिः सङ्गृहीताबद्धाः ८, षष्ठपदे जीवोपग्राहकत्वेन कर्म्मण आधारता विवक्षितेह तु तस्यैव जीवबन्धनतेति विशेषः ॥ इदं च लोकस्थित्यादि स्वसम्पदुपेतगणिवचनात् ज्ञायत इति गणिसम्पदमाह - मू. (७०६) अट्ठविहा गणिसंपता पं० - आचारसंपया १ सुयसंपता २ सरीरसंपता ३ वतणसंपता ४ वातणासंपता ५ मतिसंपता ६ पतोगसंपता ७ संगहपरिण्णानाम अट्ठमा ८। वृ. 'अडविहा गणिसंपये' त्यादि गणः समुदायो भूयानतिशयवान् वा गुणानांसाधूनां वा यस्वास्ति स गणी-आचार्यस्तस्य सम्पत्-समृद्धिर्भावरूपा गणिसम्पत् तत्राचरणमाचारः - अनुष्ठानं स एव सम्पत्-विभूतिस्तस्य वा सम्पत्-सम्पत्तिः प्राप्तिः आचारसम्पत्, सा च चतुर्धा, तद्यथासंयमध्रुवयोगयुक्तता, चरणे नित्यं समाध्युपयुक्ततेत्यर्थः १ असंप्रग्रह: आत्मनो जात्याद्युत्सेकरूपग्राहवर्जनमिति भावः २ । अनियतवृत्तिः अनियतविहार इति योऽर्थः ३ वृद्धशीलता वपुर्मनसो निर्विकारतेतियावत् ४, एवं श्रुतसम्पत्, साऽपि चतुर्द्धा, तद्यथा बहुश्रुतता युगप्रधानागमतेत्यर्थः १ परिचितसूत्रता विचित्रसूत्रता स्वसमयादिभेदात् ३ घोषविशुद्धिकरता च उदात्तादिविज्ञानादिति ४, शरीरसम्पच्चतुर्द्धा तद्यथा आरोहपरिणाहयुक्ता उचितदैर्घ्यविस्तरतेत्यर्थः १ अनवत्रपता अलज्जनीयाङ्गतेत्यर्थः २ परिपूर्णेन्द्रियता ३ स्थिरसंहननता चेति ४, वचनसम्पञ्चतुर्द्धा, तद्यथा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy