SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ स्थान- ८, ४५७ पाठान्तरेण प्रवरगन्धं च माल्य-मालायां साधु पुष्पमित्यर्थः अनुलेपनं च-श्रीखण्डादिविलेपनं यो धारयति स तथा, भास्वरा-दीप्राबोन्दी-शरीरं यस्यसतथा,प्रलम्बाया वनमाला-आभरणविशेषस्तां धारयति यःस तथा, दिव्येन-स्वर्गसम्बन्धिनाप्रधानेनेत्यर्थो वर्णादिनायुक्त इति गम्यते, सङ्घातेन संहननेनवज्रर्षभनाराचलक्षणेन संस्थानेन-समचतुरनलक्षणेन ऋध्या-विमानदिरूपया युक्त्याअन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेन प्रभया-प्रभावेन माहास्येनेत्यर्थः,छायया-प्रतिबिम्बरूपया अर्चिषा-शरीरनिर्गततेजोज्वालया तेजसा-शरीरस्थकान्त्या लेश्यया-अन्तःपरिणामरूपया शुक्लादिकया उद्योतयमानः-स्थूलवस्तूपदर्शनतः प्रभासयमानस्तु-सूक्ष्मवस्तूपदर्शनत इति, एकार्थिकत्वेऽपिचैतेषां न दोषः, उत्कर्षप्रति पादकत्वेनाभिहितत्वादिति, महता-प्रधानेन बृहता वा रवेणेति सम्बन्धः, अहतः-अनुबद्धो रवस्यैतद्विशेषणं नाट्य-नृत्तं तेन युक्तं गीतं नाट्यगीतं तच्च वादितानिच-तानिशब्दवन्ति कृतानितन्त्री च-वीणातलौच-हस्तौतालाश्च-कंशिकाः 'तुडिय'त्ति तूर्याणि च-पटहादीनि वादिततन्त्रीतलतालतूर्याणि तानि च तथा घनो-मेघस्तदाकारो यो मृदङ्गो ध्वनिगाम्भीर्यसाधात स चासौ पटुना-दक्षेण प्रवादितश्च यः स घनमृदङ्गपटुप्रवादितः स चेति द्वन्द्वे तेषां रकः-शब्दस्तेन करणभूतेन, अथवा 'आह-यत्ति आख्यानकप्रतिबद्धं यन्नाटयं तेन युक्तं यत्तद्गीतं, शेषं तथैव, इह चमृदङ्गग्रहणंतूर्येषु मध्ये तस्य प्रधानत्वात्, यत उच्यते- 'मद्दलसाराइंतूराइंति, भोगार्हाभोगाःशब्दादयो भोगभोगास्तान् भुलानः-अनुभवन् विहरति-क्रीडति तिष्ठति वेति, भाषामपि च 'से' तस्य भाषमाणस्यास्तामेको द्वौवा सौभाग्यातिशयात् यावच्चत्वारः पञ्चवा देवा अनुक्ता एवकेनाप्यप्रेरिता एव भाषणप्रवर्तनाय बहोरपि भाषितस्य स्वबहुमतत्वख्यापनाय चाभ्युत्तिष्ठन्ति, ब्रुवतेच 'बहु'मित्यादि, अभिमतमिदंभवदीयंभाषणमिति हृदयं, अनेनालोचकस्योपपातागर्हितत्वमुक्तं, एतद्भणनादिहलोकागर्हितत्वलघुतालादादि आलोचनागुणसद्भावेन वाच्यं, आलोचनागुणाश्चैते॥१॥ “लहुयाल्हाइयजणणं अप्परनियत्ति अज्जवं सोही। दुक्करकरणं आढा निस्सल्लत्तं च सोहिगुणा ।।" इदानीं तस्यैव प्रत्याजात्यगर्हितत्वमाह - ‘से ण'मित्यादिना, 'अड्डाईति धनवन्ति यावत्करणात् 'दित्ताई'-दीप्तानिप्रसिद्धानिध्तानिवा-दर्पवन्ति 'विच्छिन्नविउलभवणसयणासणजाणवाहणाई तत्र विस्तीर्णानि-विस्तारावन्ति विपुलानि-बहूनि भवनानि गृहाणि शयनानिपर्यादीनि आसनानि-सिंहासनादीनि यानानि-रथादीनि वाहनानि च-वेगसरादीनि येषु कुलेषु तानि तथा, क्वचिद् ‘वाहणाइन्नाइंतिपाठस्तत्र विस्तीर्णविपुलैर्भवनादिभिराकीर्णानि-सङ्कीर्णानि युक्तानीत्यर्थः इति व्याख्येयं, तथा 'बहुधणबहुजायरूवरययाई बहु धनं-गणिमधरिमादि येषु तानि तथा बहुजातरूपंच-सुवर्ण रजतं च-रूप्यं येषु तानि तथा, पश्चात्कर्मधारयः, 'आओगपओगसंपउत्ताई' आयोगेन-द्विगुणाद्विलाभेन द्रव्यस्य प्रयोगः-अधर्मणानां दानं तत्र सम्प्रयुक्तानिव्यापृतानि तेन वा संप्रयुतानि-संगतानि तानि तथा, “विच्छड्डियपउरभत्तपाणाई' विच्छर्दिते-त्यक्तेबहुजनभोजनावशेषतया विच्छवती वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy