________________
स्थानं - ८, -
४६१
भणिओऽवि नवि रूसे"त्ति, दान्तः प्रायश्चित्तं दत्तं वोढुं समर्थो भवतीति, आह च - "दंतो समत्थो वोढुं पच्छित्तं जमिह दिज्जए तस्स" इति, 'आलोयणे त्यादि, व्याख्यातं प्रायः,
म.(७११) अट्ठ मतढाणा पं० २० - जातिमते कुलमते बलमते रूवमते तव० सुत० लाभ० इस्सरितमते।
वृ.जात्यादिमदेषुसत्स्वालोधनायांन प्रवर्त्तत इतिमदस्थानसूत्रं, गतार्थं, नवरंमदस्थानानिमदभेदाः इह च दोषाः ॥१॥ "जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह।
जात्यादिहीनतां परभवे च निःसंशयं लभते ॥इति, वादिनं हि प्रायः श्रुतमदो भवतीति वादिविशेषान् दर्शयन्नाह -
मू. (७१२) अठ्ठ अकिरियावाती पं० २० - एगावाती १ अनेगावाती २ मितवादी ३ निम्मितवादी ४ सायवादी ५ समुच्छेदवाती ६ नितावादी ७ न संति परलोगवादी ८॥
वृ. 'अट्ठ अकिरिए त्यादि, क्रिया-अस्तीतिरूप सकलपदार्थसार्थव्यापिनी सैवायथावस्तुविषयतया कुत्सिता अक्रियानञः कुत्सार्थत्वात्तामक्रियांवदन्तीत्येवंशीलाः अक्रियावादिनो, यथावस्थितं हि वस्त्वनेकान्तात्मकंतन्नास्त्येकान्तात्मकमेवचास्तीतिप्रतिपत्तिमन्तइत्यर्थः, नास्तिका इति भावः एवंवादित्वाच्चैते परलोकसाधकक्रियामपि परमार्थतो न वदन्ति, तन्मतवस्तुसत्त्वे हि परलोकसाधकक्रियाया अयोगादित्यक्रियावादिन एव ते इति, तत्रैक एवात्मादिरर्थ इत्येवं वदतीत्येकवादी, दीर्घत्वं च प्राकृतत्वादिति, उक्तं चैतन्मतानुसारिभिः॥१॥ “एक एव हि भूतात्मा, भूते भूते व्यवस्थितः।
एकधा बहुधा चैव, श्यते जलचन्द्रवत् ॥” इति, अपरस्त्वात्मैवास्ति नान्यदिति प्रतिपन्नः, तदुक्तम् - "पुरुष एवेदं ग्निं सर्व यद्भूतं यच्च भाव्यम्, उतामृतत्वस्येशानो यदन्नेनाधिरोहति यदेजति यन्नैजति यहूरे यदु अन्तिके यदन्तरस्य सर्वस्यास्य बाह्यत" इति, तथा ॥१॥ “नित्यज्ञानविवर्तोऽयं, क्षितितेजोजलादिकः।
आत्मा तदात्मकश्चेति, सङ्गिरन्ते परे पुनः॥" इति, -शब्दाद्वैतवादी तु सर्व शब्दात्मकमिदमित्येकत्वं प्रतिपन्नः, उक्तं च॥9॥
“अनादिनिधनं ब्रह्म, शब्दतत्त्वं यदक्षरम्।
विवर्त्ततेऽर्थभावेन, प्रक्रिया जगतो यतः ।।" इति, अथवा सामान्यवादी सर्वमेवैकंप्रतिपद्यते, सामान्यस्यैकत्वादित्येवमनेकधैकवादी, अक्रियावादिता चास्य सद्भूतस्यापि तदन्यस्य नास्तीति प्रतिपादनात् आत्माद्वैतपुरुषाद्वैतशब्दाद्वैतादीनां युक्तिभिरघटमानानामस्तित्वाभ्युपगमाच्च, एवमुत्तरत्रापीति १, तथा सत्यपि कथञ्चिदेकत्वे भावानां सर्वथा अनेकत्वं वदतीत्यनेकवादी, परस्परविलक्षणा एव भावास्तथैव प्रमीयमाणत्वात्, यथा रूपं रूपतयेति, अभेदे तु भावानां जीवाजीवबद्धमुक्तसुखितदुःखितादीनामेकत्वप्रसङ्गात् दीक्षादिवैयर्थ्यमिति, किञ्च-सामान्यमङ्गीकृत्यैकत्वं विवक्षितं परैः, सामान्यं च भेदेभ्यो भिन्नाभिन्नतया चिन्त्यमानं न युज्यते, एवमवयवेभ्योऽवयवी धर्मेभ्यश्च धर्मीत्येवमनेकवादी,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org