________________
स्थानं - ७,
119 11
"सोउं भणइ सदोसं वक्खाणमिणंति पावइ जओ ते । मोक्खाभावो जीवप्पएसकम्माविभागाओ ॥ नहि कम्मं जीवाओ अवेइ अविभागओ पएसव्व । तदणवगमादमोक्खो जुत्तमिणं तेण वक्खाणं ।।'' इति
॥२॥
तथा - जीवः कर्म्मणा स्पृष्टद्ये न तु बद्धते, वियुज्यमानत्वात्, कञ्चुकनेव तद्वानिति, ततो विन्ध्यसाधुनैतस्मिन्नाचार्ययार्थे निवेदिते यस्तेनाभिहितो (आचार्यादवधार्यार्थं गोष्ठामाहिलो विन्ध्येनोक्तः) भद्र! यदुक्तं त्वया जीवात् कर्म्म न वियुज्यत इति, तत्र प्रत्यक्षबाधिता प्रतिज्ञा आयुः कर्म्मवियोगात्मकस्य मरणस्य प्रत्यक्षत्वात् हेतुरप्यनैकान्तिकोऽन्योऽन्याविभागसम्बद्धानामपि क्षीरोदकादीनामुपायतो वियोगदर्शनात्, दृष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य वियुतत्वासिध्धेस्तद्रूपेणानादिरूपत्वाद् भिन्नं च जीवात् कर्मेति, यच्चोक्तं- "जीवः कर्म्मणा स्पृष्टो न बध्यते इत्यादि,” तत्र किं प्रतिप्रदेशं स्पृष्टो नभसेवोत त्वङ्गमात्रे कञ्चुकेनेव ?, यद्याद्यः पक्षः तदा ष्टान्तदार्थन्तिकयोर्वैषम्यं कञ्चुकेन प्रतिप्रदेशमस्पृष्टत्वाद्, अथ द्वितीयः, ततो नापान्तरालगत्यनुयायि कर्म, पर्यन्तवर्त्तित्वाद्, बाह्याङ्गमलवद् एवं सर्वो मोक्षभावक् कर्मानुगमरहितत्वात् मुक्तवद्, इत्यादि प्रतिपाद्यमानो यो नैतत्प्रतिपन्नवानुद्घाटितश्चेति सोऽयमबद्धिकधर्माचार्यः इति ।
मू. (६८९) सावत्थी उसभपुरं सेतविता मिहिलमुल्लगातीरं । पुरिमंतरंजि दसपुर निह्नगउप्पत्तिनगराई ॥
वृ. उत्पत्तिनगराणि सप्तानां क्रमेण सप्तैव 'होत्थ' त्ति सामान्येन वर्त्तमानत्वेऽपि नगराणां तद्विशेषगुणातीतत्वेनातीतनिर्देशः, 'सावत्थी' गाहा, ऋषभपुरं राजगृह उल्लुका नदी तत्तीरवर्त्तिनगरमुल्लुकतीरं 'पुरी 'ति नगरी अन्तरंजीती तन्त्राम, इह च मकारोऽलाक्षणिकः, 'दसपुर'त्ति अनुस्वारलोपादिति ।
४४९
एते च निह्नवाः संसारे पर्यटन्तः सातासात भोगिनो भविष्यन्तीति तत्स्वरूपं सूत्रद्वयेनाहमू. (६९०) सातावेयणिज्जस्स कम्मस्स सत्तविधे अनुभावे पं०, तं० मणुना सद्दा मणुन्ना रूवा जाव मणुन्ना फासा मनोसुहता वति सुहता। असातावेयणिजस्स णं कम्पस्स सत्तविधे अनुभावे पं०, तं० - अमणुन्ना सद्दा जाव वतिदुहता ।
वृ. 'साये' त्यादि कण्ठ्यं, नवरं, 'अनुभावे'त्ति विपाक: उदयो रस इत्यर्थः, मनोज्ञाः शब्दादयः सातोदयकारणत्वादनुभावा एवोच्यन्ते, तथा मनसः शुभता मनःशुभता, साऽपि सातानुभावकारणत्वात्सातानुभाव उच्यते, एवं वचः- शुभताऽपि, मनःसुखता वा सातानुभावः, तत्स्वरूपत्वात् तस्याः, एवं चाक्सुखताऽपीति, एवमसातानुभावोऽपि ॥ सातासाताधिकारात् तद्वतां देवविशेषाणां प्ररूपणाय सूत्रपञ्चकमाह
मू. (६९१) महानक्खत्ते सत्ततारे पं०, अभितीयादिता सत्त नक्खत्ता पुव्वदारिता पं० तं० - अभिती सवणो घणिट्ठा सतमिसता पुव्वा भद्दवता उत्तरा भद्दवता रेवती, अस्सणितादिताणं सत्तणक्खत्ता दाहिणदारिता पं०, तं०- अस्सिणी भरणी कित्तिता रोहिणी भिगसिरे अद्दा पुनव्वसू, पुरसादिताणं सत्तनक्खत्ता अवरदारिता पं० तं०-पुस्सो असिलेसा मधा पुव्वा फग्गुणी उत्तरा
3 129
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org