________________
४४८
स्थानाङ्ग सूत्रम् ७/-/६८८
श्रावकाः श्रुताःतत्कथंसाधून्मारयथेति वदन्युष्पत्सिद्धान्तेन प्रव्रजिताः श्रावकाश्च येतेव्यवच्छिन्ना यूयं वयं चान्ये इति दत्तप्रत्युत्तरः सम्यकत्वंप्रतिपन्नः, सोऽयं सामुच्छेदिकानां धर्माचार्य इति ४,
तथा 'गंग'इति, यो हि आर्यमहागिरिशिष्यस्य धनगुप्तस्य शिष्यः उल्लुकातीराभिधाननगराच्छरद्याचार्यवन्दनार्थं प्रस्थित उल्लुकां नदीमुत्तरन् खलतिना शिरसा दिनकरकरनिकरसम्पातसञ्जातमुष्णं पादाभ्यां च शीतलजलजनितनितान्तशीतं वेदयंश्चिन्तयामास-सूत्रेऽभिहितमेका क्रियैकदा वेद्यतेशीतावोष्णा वा, अहं च द्वे क्रिये वेदयामिअतोद्वे क्रिये समयेनैकेन वेद्यते इति, गत्वा च गुर्वन्तिके वन्दित्वाऽभिदधावभिप्रायमात्मीयमाचार्याय, तेन चावाचि-मैवं वोचः, यत नास्त्येकदा क्रियाद्वयवेदनं, केवलं समयमनसोरतिसूक्ष्मतया भेदोन लक्ष्यते, उत्पलपत्रशतव्यतिभेदवत्, एवंच प्रतिपादितः सन्नप्रतिपद्यमानो बहिष्कृतः अन्यदा राजगृहे महातपस्तीरप्रभाभिधाने नदविशेषे मणिनागनाम्नो नागस्य चैत्ये पर्षन्मध्ये स्वमतमावेदयन् मणिनागेन विसर्पदर्पगर्भया भारत्याऽभिहितो-रे रे दुष्टशैक्ष! कस्मादस्मासु सत्स्वेवमप्रज्ञापनीयंप्रज्ञापयसि इति इहैवस्थाने स्थितेन भगवता वर्द्धमानस्वामिना प्रणिन्ये-यथैकदैकैव क्रिया वेद्यत इति, ततस्त्वं ततोऽपि लष्टतरो जातः?, छईयैनं वादं, मा ते दोषात् नाशयिष्यामीति भयमापन्नः प्रतिबुद्धः, सोऽयं द्वैक्रियाणां धर्माचार्य इति ५।।
तथा छलुए'त्ति, द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणषट्पदार्थप्ररूपकत्वाद् गोत्रेण च कौशिकत्वात् षडुलुको, यो हि नामान्तरेण रोहगुप्तो, यश्चान्तरज्यां पुर्यां भूतगुहाभिधानव्यन्तरायतने व्यवस्थितानां श्रीगुप्ताभिधानानामाचार्याणां वन्दनार्थं ग्रामान्तरादागच्छन् प्रवादिप्रदापितपटहकध्वनिमाकर्ण्य सदपं च तं निषेध्याचार्यस्य तन्निवेद्य ततो मायूर्यादिविद्या उपादाय राजकुलमतिगत्य बलश्रीनाम्नो नरनायकस्याग्रतः पोट्टशालाभिधानपरिव्राजकप्रवादिनमाहूय तेन चजीवाजीवलक्षणे राशिद्वये स्थापितं तत्प्रतिभाप्रतिघाताय नोजीवलक्षणं तृतीयं राशिं व्यवस्थाप्य तद्विधानां स्वविद्याभिः प्रतिघातकरणेन तं निगृह्य गुरुसमीपमागत्य तनिवेदितवान्, यश्चगुरुणा अभिहितो, यथा-गच्छ राजसभामनुप्रविश्यब्रूहि राशित्रयप्ररूपणमपसिद्धान्तरूपं वादिपरिभवाय मया कृतमिति, ततो योऽभिमानादाचार्यं प्रत्यवादीत्-यथा राशित्रयमेवास्ति, तथाहि-जीवाः-संसारस्थादयः अजीवाः-घटादयः नोजीवास्तु घटान्तसिद्धाः, यथा हि दण्डस्यादिमध्याग्राणि भवन्तीत्येवं सर्वभावानां त्रैविध्यमिति, यश्च राजसमक्षमाचार्येण कुत्रिकापणे जीवयाचने पृथिव्यादिजीवलाभात् अजीवयाचने अचेतनलेष्टादिलाभात् नोजीवयाचनेऽचेतनलेष्ट्वादिलाभाच्च निगृहीतः, सोऽयं त्रैराशिकधर्माचार्य इति ६ ।
तथा गोष्ठामाहिल इति, यो हि दशपुरनगरे आर्यरक्षितस्वामिनि दिवं गते आचार्यश्रीदुर्बलिकापुष्पमित्रे गणं परिपालयति विन्ध्याभिधानसाधोरष्टमं कर्मप्रवादाभिधानं पूर्वामाचार्यादुपश्रुत्य प्रत्युच्चारयतः कर्मबन्धाधिकारे किञ्चित्कर्मजीवप्रदेशैः स्पृष्टमात्रं कालान्तरस्थितिमप्राप्य विघटतेशुष्ककुड्यापतितचूर्णमुष्टिवकिञ्चित्पुनः स्पृष्टंबद्धंच कालान्तरेण विघटते आर्द्रलेपकुड्ये सस्नेहचूर्णवत् किंचित्पुनः स्पृष्टं बद्धं निकाचितं जीवेन सहैकत्वमापन्नं कालान्तरेण वेद्यते इत्येवमाकर्योक्तवान्-नन्वेवं मोक्षाभावः प्रसजति, कथं?, जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात्, स्वप्रदेशवत्, उक्तंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org