________________
४३८
स्थानाङ्ग सूत्रम् ७/-/६६७
... वृ. 'सत्त'त्ति मोहस्य क्षयादुपशमाद्वा नाष्टावित्यर्थः, अत एवाह-'मोहणिज्जवजाउ'त्ति। एतान्येव च जिनो जानातीत्युक्तं, स च वर्तमानतीर्थे महावीर इति तत्स्वरूपं तत्प्रतिषिद्धविकथाभेदांचाह
मू. (६६८) समणे भगवं महावीरे वयरोसभनारायसंघयणे समचउरंससंठाणसंठिते सत्त रयणीओ उद्धं उच्चत्तेणं हुत्था।
वृ. 'समणे' इत्यादि सूत्रद्वयं सुगमं ।
मू. (६६९) सत्त विकहाओ पं०, तं०-इत्थिकहाभत्तकहादेसकहा रायकहा मिउकालणिता दसणभेयणी चरित्तभेयणी।
वृ. नवरं 'विकहाउति चतनः प्रसिद्धाः व्याख्याताश्चेति मिउकालुणिय'त्ति श्रोतृहदयमाईवजननात् मृद्वी सा चासौ कारुणिकी च-कारुण्यवती मृदुकारुणिकी-पुत्रादिवियोगदुःखदुःखितमात्रादिकृतकारुण्यरसगर्भप्रलापप्रधानेत्यर्थः, तद्यथा॥१॥ “हा पुत्त पुत्त हा वच्छ! वच्छ मुक्कामि कहमणाहाहं ? ।
एवं कलुणविलावा जलंतजलणेऽज सा पडिया ।।" इति, ___-दर्शनभेदिनी ज्ञानाद्यतिशयितकुतीर्थिकप्रशंसादिरूपा, तद्यथा- ॥१॥ “सूक्ष्मयुक्तिशतोपेतं, सूक्ष्मबुद्धिकरं परम्।
. सूक्ष्मार्थदर्शिभिर्दष्टं, श्रोतव्यं बौद्धशासनम् ॥ इत्यादि, एवं हि श्रोतृणां तदनुरागात् सम्यग्दर्शनभेदः स्यादिति, चारित्रभेदिनी न सम्भवन्तीदानीं महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचारशोधकाचार्यतत्कारसाधुशुद्धीनामभावादिति ज्ञानदर्शनाभ्यां तीर्थं वर्तत इति ज्ञानदर्शनकर्तव्येष्वेव यत्नो विधेय इति, भणितंच॥१॥ “सोही य नस्थि नवि दित करेंता नविय कोइ दीसंति।
तित्थं च नाणदंसण निजवगा चेव वोच्छिन्ना ॥” इत्यादि, अनया हि प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते किं पुनस्तदभिमुखस्येति चारित्रभेदिनीति॥
मू. (६७०) आयरियउवज्झायस्सणं गणंसि सत्त अइसेसापं०, तं०-आयरियउ-वज्झाए अंतो उवस्सगस्स पाते निगिझिय २ पकोडेमाणे वा पमन्जमाणे वा नातिकमति, एवं जधा पंचट्ठाणे जाव बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिक्कमति, उवकरणातिसेसे भत्तपाणातिसेसे।
वृ. विकथासु च वर्तमानान् साधूनाचार्या निषेधयन्ति सातिशयत्वात्तेष्आमिति तदतिशयप्रतिपादनायाह-'आरयिए'त्यादि, पञ्चस्थानके व्याख्यातप्रायं तथापि किञ्चिदुच्यतेआचार्योपाध्यायो निगृह्णानिगृह्य-अन्तर्भूतकारितार्थत्वेन पादधूल्याः प्रसरन्त्या निग्रहं कारयित्वा २ प्रस्फोटयन्-पादप्रोञ्छनेन वैयावृत्त्याकरादिना प्रस्फोटनं कारयन् प्रमार्जयन्-प्रमार्जनं कारयन्नाज्ञामतिक्रामति, शेषसाधवः उपाश्रयाबहिरिदं कुर्वन्तीत्याचायदिरतिशयः, 'एव'मित्यादिनेदं सूचितं "आयरियउवज्झाए अंतो उवस्सयस्स उच्चारपासवणं विगिचेमाणे वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org