________________
स्थानं -७,
४३७
स्म, ततो मल्ली तत्राजगाम, प्रतिमायाः पिधानंचापससार, ततस्तस्या गन्धःसादिकमृतकगन्धातिरिक्त उद्दधाव, ततस्ते नासिकांपिदधुः पराङ्मुखाश्चतस्थुः, मल्ली चतानेवमवादीत-किन्नुभो भोभूपा! यूयमेवंपिहितनासिकाः पराङ्मुखीभूताः?, तेऊचुः-गन्धेनाभिभूतत्वात्, पुनः साऽवोचत्यदि भो देवानां प्रियाः ! प्रतिदिनमतिमनोज्ञाहारकवलक्षेपेणैवंरूपः पुद्गलपरिणामः प्रवर्तते कीदृशः पुनरस्यौदारिकस्य शरीरस्यखेलवान्तपित्तशुक्रशोणितपूयाश्रवस्य दुरन्तोच्छासनिश्वासस्य पूतिपुरीषपूर्णस्य चयापचयिकस्यशटनपतनविध्वंसनधर्मकस्य परिणामो भविष्यतीति?, ततो मा यूयं मानुष्यककामेषु सजत, किंच॥१॥ "किंथ तयं पम्हुटुंजं थ तया भो जयंतपवरंमि ।
वुच्छा समयनिबद्धं देवा! तंसंभरह जाइं॥" इति भणिते सर्वेषामुत्पन्नं जातिस्मरणं, अथ मल्लिरवादीत्-अहंभोः ! संसारभयात् प्रजिष्यामि, यूयं किं करिष्यथ?, तेऊचुः-वयमप्येवं, ततो मल्लिरवोचत्-यद्येवं ततो गच्छत स्वनगरेषुस्थापयत पुत्रान् राज्येषुयततः प्रादुर्भवतममान्तिकमिति, तेऽपितथैव प्रतिपेदिरे, ततस्तान्मल्ली गृहीत्वा कुम्भकराजान्तिकमाजगाम, तस्यतानपादयोः पातयामास, कुम्भकराजोऽपितान्महताप्रमोदेनापूपुजत् स्वस्थानेषु च विससर्जेति, मल्ली च सांवत्सरिकमहादानान्तरं पोषशुद्धैकादश्यामटमभक्तेनाश्विनीनक्षत्रे तैः षड्भिर्नृपतिभिर्नन्दन्दिमित्रादिभिर्नागवंशकुमारैस्तथा बाह्यपर्षदा पुरुषाणां त्रिभिः शतैरभ्यन्तरपर्षदा च स्त्रीणां त्रिभिः शतैः सह प्रवव्राज, उत्पन्नकेवलश्च तान् प्रव्राजितवानिति।
एते च सम्यग्दर्शने सति प्रजिता इति सामान्यतो दर्शननिरूपणायाह
मू (६६५) सत्तविहे दंसणे पं०, तं०-सम्मइंसणे मिच्छदसणे सम्मामिच्छदंसणे चक्खुदंसणे . अचक्खुदंसणे ओहिदसणे केवलदंसणे ।
वृ. 'दसणे'त्यादि सुगमं, परंसम्यग्दर्शन-सम्यकत्वंमिथ्यादर्शनं-मिथ्यात्वंसम्यग्मिथ्यादर्शनंमिश्रमिति, एतच्च त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोदयेभ्यो जायते तथाविधरुचिस्वभावं चेति, चक्षुर्दर्शनादितुदर्शनावरणीयभेदचतुष्टयस्य यथासम्भवं क्षयोपशम-क्षयाभ्यां जायते सामान्यग्रहणस्वभावं चेति, तदेवं श्रद्धानसामान्यग्रहणयोर्दर्शनशब्दवाच्यत्वाद्दर्शनं सप्तधोक्तमिति । अनन्तरं केवलदर्शनमुक्तं, तच्च छद्भस्थावस्थायाअनन्तरं भवतीति छद्भस्थप्रतिबद्धं सूत्रद्वयं, विपर्यसूत्रं च।।
मू. (६६६) छउमत्यवीयरागे णं मोहणिज्जवजाओ सत्त कम्मपयडीओ वैयेति, तंजहानाणावरणिजं दंसणावरणिशं वेयणियं आउयं नाम गोतमंतरातितं।
वृ.'छउमत्थे त्यादिसुगम, नवरंछद्भनि-आवरणद्वयरूपेअन्तरायेच कर्मणि तिष्ठतीति छद्भस्थः-अनुत्पन्नकेवलज्ञानदर्शनः स चासौ वीतरागश्च-उपशान्तमोहत्वात् क्षीणमोहत्वाद्वा विगतरागोदय इत्यर्थः।
मू. (६६७) सत्त ठाणाइंछउमत्थे सव्वभावेणं न याणति न पासति, तं०-धम्मस्थिकार्य अधम्मस्थिकार्य आगासस्थिकार्य जीवं असरीपडिबद्धं परमाणुपोग्गलं सदं गंधं, एयाणि चेव उप्पन्ननाणे जाव जाणति पासति, तं०-धम्मत्थिगातं जाव गंधं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org