________________
४३६
स्थानाङ्ग सूत्रम् ७/१६६१ तथा श्रावस्त्यां रुक्मिराजः सुबाह्नभिधानायाः स्वदुहितुश्चातुर्मासिकमजनमहोत्सवे नगरीचतुष्पथनिवेशितमहामण्डपे विभूत्यामज्जितातांतत्रैवोपविष्टस्य पितुः पादवन्दनार्थमागतां अङ्केनिवेश्य तल्लावण्यमवलोकयन् व्याजहार, यदुत भोवर्षधर ईष्टईदशोऽन्यस्याः कस्याश्चिदपि कन्यायाः मञ्जनकमहोत्सवः?,सोऽवोचद्-देव! विदेहवरराजकन्यासत्कमज्जनोत्सवापेक्षया अयं लक्षांशेऽपि रमणीयतया न वर्तत इत्युपश्रुत्य तथैव दूतं प्रेषयति स्मेति ३ । तथा अन्यदा मल्लिसत्कदिव्यकुण्डलयुग्मसन्धिर्विजधटे, तत्सट्टनार्थकुम्भकेन सुवर्णकाराः समादिष्टास्तथैव कर्तुं तमशक्नुवन्तश्च नगर्या निष्कासिताः, बाणारस्यां शङ्खराजमाश्रिताः, भणिताश्च ते तेनकेन कारणेन कुम्भेन निष्काशिता यूयं ?, तेऽभिदधुः "-मल्लिकन्यासत्कविघटितकर्णकुण्डलसन्धाना-शकनेनेति, ततः कीशी सेति पृष्टेभ्यस्तेभ्यो मल्लिरूपमुपश्रुत्य तथैव दूतं प्राहिणोत्४।
तथा कदाचिन्मल्लया मल्लदिन्नाभिधानोऽनुजो भ्राता सभां चित्रकश्चित्रयामास, तत्रैकेन चित्रकरयूना लब्धिविशेषवता यमनिकान्तरिताया मल्लिकन्यायाः पादाङ्गुष्ठमुपलभ्य तदनुसारेण मल्लिसशमिव तद्रूपंनिर्वतितं, ततश्च मल्लदिन्नकुमारःसान्तःपुरश्चित्रसभायांप्रविवेश, विचित्राणि च चित्ररूपाण्यवलोकयन् मल्लिरूपं ददर्श, साक्षान्मल्लीयमिति मन्यमानो ज्येष्ठाया भगिन्या गुरुदेवभूतायाअहमग्रतोऽविनयेनायात इति भावयन्परमव्रीडांजगाम, ततस्तद्धात्री चित्रमिदमिति न्यवेदयत्, ततोऽसावस्थाने तेनेदं लिखितमिति कुपितस्तं वध्यमाज्ञापितवान्, चित्रकरश्रेणीतु तंततो मोचयामास, तथापि कुमारःसन्दशकं छेदयित्वा तं निर्विषयमादिदेश, स च हस्तिनागपुरे अदीनशत्रुराजमुपाश्रितः, ततो राजा तन्निर्गमकारणं पप्रच्छ, तेन च तथैव कथिते दूतं प्रहिणोति स्मेति ५।
तथा कदाचिचोक्षाभिधाना परिव्राजिका मल्लिभवनं प्रविवेश, तांचदानधर्मच शौचधर्म चौद्ग्राहयन्तीं मल्लिस्वामिनी निर्जिगाय, निर्जिता च सती कुपिता काम्पिल्यपुरे जितशत्रुराजमुपाश्रिता, भणितं च नरपतिना-चोक्षे ! बहुत्र त्वं संचरस्यतोऽद्राक्षीः काञ्चित्क्वचिदस्मदन्तः पुरपुरन्ध्रीसशी ?, सा व्याजहार-विदेहवरराजकन्यापेक्षया युष्मत्पुरन्ध्रयो लक्षांशेऽपि रूपसौभाग्यचादिभिर्गुणैर्न वर्तन्त इति श्रुत्वा तथैव दूतं विसर्जितवानिति ६ ।
एवमेते षडपि दूताः कुम्भकं कन्यां याचितवन्तः, स च तानपद्वारेण निष्काशितवान्, दूतवचनाकर्णनाज्जातकोपाः षडपि अविक्षेपेण मिथिलां प्रति प्रतस्थुः, आगच्छतश्च तानुपश्रुत्य कुम्भकः सबलवाहनो देशसीमान्ते गत्वा रणरङ्गरसिकतया तान् प्रतीक्षमाणस्तस्थै, आयातेषु तेषु लग्नमायोधनं, बहुत्वात् परबलस्य निहतकतिपयप्रधानपुरुषमतिन शितशरशतजर्जरितजयकुञ्जरमतिखरक्षुरुप्रप्रहारोपप्लुतवाजिविसरविक्षिप्ताश्ववारमुत्तुङ्गमत्तमतङ्गजचूर्णितचक्रिव क्रमुल्लूनच्छत्रपतत्पताकंकान्दिशीककातरंकुम्भकसैन्यं भङ्गमगमत्, ततोऽसौनिवृत्त्य रोधकसज्जः सन्नासामासे, ततस्तज्जयोपायमलभमानमतिव्याकुलमानसंजनकमवलोक्यमल्ली समाश्वासयन्ती समादिदेश.।
यदुत-भवते दीयते कन्येत्वेवं प्रतिपादनपरपरस्परप्रच्छन्नपुरुषप्रत्येकप्रेषणोपायेन पुरि पार्थिवाः षडपि प्रवेश्यन्तां, तथैव कृतं, प्रवेशितास्ते, पूर्वरचितगर्भगृहेषु मल्लिप्रतिमामवलोक्य चते सेयंमल्लीतिमन्यमानास्तद्रूपयौवनलावण्येषुमूर्छितानिर्निमेषदृष्टया तामेवावलोकयन्तस्तिष्ठन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org