SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ स्थानं -७, ४२९ ललितंललतीव यत् स्वरघोलनाप्रकारेण शब्दस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वेति८, एभिरष्टाभिगुणैर्युक्तं गेयं भवति, अन्यथा विडम्बना । किञ्चान्यत्मू. (६३६) उरकंठसिरपसत्थं च गेजंते मउरिभिअपदबद्धं । समतालपडुक्खेवं सत्तसरसीहरं गीयं ।। वृ. 'उर गाहा, उरःकण्ठशिरःसुप्रशस्तं-विशुद्धं, अयमर्थो-यधुरसि स्वरो विशालस्तत उरोविशुद्धं, कण्ठे यदिस्वरोवर्तितोऽस्फुटितश्चततः कण्ठविशुद्धं, शिरसिप्राप्तो यदि नानुनासिकस्ततः शिरोविशुद्ध,अथवाउरःकण्ठःशिरःसुश्लेष्मणा अव्याकुलेषुविशुद्धेषु-प्रशस्तेषु यत्तत्तथेति, चकारो गेयगुणान्तरसमुच्चये गीयते-उच्चार्यते गेयमिति सम्बध्यते, किंविशिष्टमित्याह ? - 'मृदकं मधुरस्वरं 'रिभितं यत्राक्षरेषुघोलनयासंचरन् स्वरो रङ्गतीवघोलनाबहुलमित्यर्थः, 'पदबद्धं' गेयपदैर्निबध्धमिति, पदत्रयस्य कर्मधारयः, “समतालपडुक्खेवं'तिसमशब्दः प्रत्येक सम्बध्यते तेन समास्ताला-हस्तताला उपचारात् तद्रवो यस्मिंस्तत्समतालं तथा समः प्रत्युत्क्षेपः प्रतिक्षेपो वा-मुरजकंशिकाद्यातोधानां यो ध्वनिस्तल्लक्षणः नृत्यत्पादक्षेपलक्षणो वा यस्मिंस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपं वेति, तथा सत्तसरसीभरं'ति सप्त स्वराः 'सीभर'न्ति अक्षरादिभिः समा यत्र तत्सप्तस्वरसीभरं, ते चामी॥१॥ 'अक्खरसमं १ पयसमं २ तालसमं ३ लयसमं ४ गहसमं च ५। . नीससिऊससयसमं सञ्चारसमं७ सरा सत्त॥'त्ति, इयंचगाथा स्वरप्रकरणोपान्ते तंतिसममित्यादिरधीतापिइहाक्षरसममित्यादि व्याख्यायते, अनुयोगद्वारटीकायामेवमेव दर्शनादिति, तत्र दीर्घ अक्षरे दीर्घः स्वरः क्रियते ह्रस्वे ह्रस्वः प्लुते प्लुतः सानुनासिके सानुनासिकः तदक्षरसमं, तथा यद् गेयपदं-नामिकादिकमन्यतरबन्धे बद्धं यत्रस्वरेअनुपातिभवति तत्तत्रैव यत्र गीते गीयते तत्पदसममिति, यत्परस्परराहतहस्ततालस्वरानुवर्ति भवति तत्तालसमं, श्रृङ्गदाद्यिन्तरमयेनाङ्गुलिकोशकेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरतो गातुर्यद्गेयंतल्लयसमं, प्रथमतोवंशतन्त्र्यादिभिर्यः स्वरोगृहीतस्तत्समंगीयमानं ग्रहसमं, निःश्वसितोच्छ्वसितमानमनतिक्रामतो यद्गेयं तनिःश्यासाशितसम, तैरेव वंशतन्त्र्यादिभिर्यदङ्गुलिसञ्चारसमं गीयते तत्सञ्चारसमं, गेयं च सप्त स्वगातदात्मकमित्यर्थः । यो गेये सूत्रबन्धः स एवमष्टगुण एव कार्य इत्याह ' मू. (६३७) निदोसंसारवंतंच, हेउजुत्तमलंकियं । उवनीय सोवयारंच, मियं मधुरमेव य॥ वृ. 'निद्दोसं' सिलोगो, तत्र निर्दोष-"अलियमुवघायजणयं" इत्यादिद्वात्रिंशत्सूत्रदोषरहितं १ सारवद्-अर्थेन युक्तं २ हेतुयुक्तं-अर्थगमककारणयुक्तं ३ अलङ्कृतं-काव्यालङ्कारयुक्तं ४ उपनीतं-उपसंहारयुक्तं ५ सोपचारं-अनिष्ठुराविरुद्धालजनीयाभिधानं सोयासं वा ६ मितं पदपादाक्षरैः नापरिमितमित्यर्थः ७ मधुरं त्रिधा शब्दार्थाभिधानतो ८ गेयं भवतीतिशेषः । तिन्नि य वित्ताई' ति यदुक्तं तद्याख्यामू. (६३८) सममद्धसमं चेव, सव्वत्थ विसमं च जं। तिन्नि वित्तप्पयाराई, चउत्थं नोपलब्भती।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy