SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४२८ स्थानाङ्ग सूत्रम् ७/-/६२९ वृ. इह च मङ्गीप्रभृतीनामेकविंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगते स्वरप्राभृते भणिताः, अधुना तु तद्विनिर्गतेभ्यो भरतवैशाखिलादिशास्त्रेभ्यो विज्ञेया इति । मू. (६३०) सत्त सराओ कओ संभवंति गेयस्स का भवंति जोणी ? । कतिसमता उसासा कति वा गेयस्स आगारा ? | वृ. 'सत्तस्सरा कओ' गाहा, इह चत्वारः प्रश्नाः, तत्र कुत इति स्थानात् का योनिरितिका जातिः तथा कति समया येषु ते कतिसमयाः, उच्छ्वासाः किंपरिमाणकाला इत्यर्थः, तथाऽSकाराः- आकृतयः स्वरूपाणीत्यर्थः, । यू. (६३१) सत्त सरा नाभीतो भवंति गीतं च रुयजोणीतं । पादसमा ऊसासा तिन्नि य गीयरस आगारा ॥ वृ. 'सत्त सरा' गाहा प्रश्ननिर्वचनार्था स्पथ, नवरं रुदितं योनि ः- जातिः समानरूपतया यस्य तद् रुदितयोनिकं, पादसमया उच्छ्वासा यावद्भिः समयैः पादो वृत्तस्य नीयते तावत्समया उच्छ्वासा गीते भवन्तीत्यर्थः, आकारानाह मू. (६३२) आइमिउ आरभंता समुव्वहंता य मज्झगारंमि । अवसाने तजवितो तिनि य गेयस्स आगारा ॥ वृ. 'आई' गाहा, आदौ -प्राथम्ये मृदु-कोमलमादिमृदु गीतमिति गम्यते, आरभमाणाः, इह समुदितत्रयापेक्षं बहुवचनमन्यथा एक एव आकारो द्वयमन्यद् वक्ष्यमाणलक्षणमिति, तथा समुद्वहन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे - मध्यभागे, तथा अवसाने च क्षपयन्तोगीतध्वनिं मन्द्रीकुर्वन्यो गीतस्याकारा भवन्ति, आदिमध्यावसानेषु गीतध्वनिः मृदुतारमन्द्रस्वभावः क्रमेण भवतीति भावः, , किं चान्यत्मू. (६३३) छद्दोसे अट्टगुणे तिनि य वित्ताइं दो य भणितीओ। जाणाहिति सो गाहिइ सुसिक्खिओ रंगमज्झम्मि ।। वृ. 'छ दोसे' दारगाहा, षट् दोषा वर्जनीयाः. । मू. (६३४) भीतं दुतं रहस्सं गायंती मा त गाहि उत्तालं । काकरसरमणुनासं च होति गेयस्स छद्दोसा ॥ वृ. तानाह - 'भीयं' गाहा, भीतं त्रस्तमानसं १ द्रुतं त्वरितं २ 'रहस्सं 'ति ह्रस्वस्वरं लघुशब्दमित्यर्थः, पाठान्तरेण 'उप्पिच्छं' श्वासयुक्तं त्वरितं चेति उत्तालं-उप्राबल्यार्थे इत्यतितालमस्थानतालं वा, तालस्तु कंशिकादिशब्दविशेष इति ४, 'काकस्वरं' श्लक्ष्णाश्रव्यस्वरं, अनुनासं चसानुनासिकं नासिकाकृतस्वमित्यर्थः किमित्याह-गायन् गानप्रवृत्तस्त्वं हे गायन ! मा गासीः, किमिति ?, यत एते गेयस्य षट् दोषा इति । अष्टो गुणानाह मू. (६३५) पुत्रं १ रतं २ च अलंकियं ३ च वत्तं ४ तहा अविधुद्धं ५ । मधुरं ६ सम ७ सुकुमारं ८ अट्ठ गुणा होति गेयस्स ॥ वृ. 'पुन्नं' गाहा, पूर्ण स्वरकलाभिः १ रक्तं गेयरागेणानुरक्तस्य २ अलङ्कृ तमन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात् ३ व्यक्तमक्षरस्वरस्फुटकरणत्वात् ४ 'अविधुडं' विक्रोशनमिव यत्र विस्वरं ५ मधुरं मधुरस्वरं कोकिलारुतवत् ६ समं तालवंशस्वरादिसमनुगतं ७ सुकुमारं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy