________________
४२४
स्थानाङ्ग सूत्रम् ७/-/६०३
॥३॥ सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् ।
सत्तारूपतया सर्वं, सगृह्णन् सङ्ग्रहो मतः॥ ॥४॥ व्यवहारोरस्तु तामेव, प्रतिवस्तु व्यवस्थिताम् ।
तथैव ईश्यमानत्वाद्, व्यवहारयति देहिनः।। ॥५॥ तत्रर्जुसूत्रनीतिः स्यात्, शुद्धपर्यायसंस्थिता ।
नश्वरस्यैव भावस्य, भावात् स्थितिवियोगतः।। अतीतानागताकारकाल संस्पर्शवर्जितम् ।
वर्तमानतया सर्वमृजुसूत्रेण सूत्र्यते ॥ विरोधिलिङ्गसङ्ख्यादिभेदाद्भिन्नस्वभावताम् ।
तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते॥ ॥८॥ तथाविधस्य तस्यापि, वस्तुनः क्षणवृत्तिनः ।
ब्रूते समभिरूढस्तु, संज्ञाभेदेन भिन्नताम् ॥ ॥९॥ एकस्यापि ध्वनेर्वाच्यं, सदा तन्नोपपद्यते ।
क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥" अथ कथं सप्त नयशतान्यसङ्ख्या वा नयाः सप्तसु नयेष्वन्तर्भवन्तीनि?, उच्यते, यथा वक्तृविशेषादसद्धयेयाअपिस्वराः सप्तसुस्वरेष्वितिस्वराणामेवस्वरूपुपप्रतिपादनाय सत्तसरेत्यादि स्वरप्रकरणमाहमू. (६०४)
सत्त सरा पं० (तं०)वृ. सुगमंचेदं, नवरं स्वरणानि स्वराः-शब्दविशेषाः, मू. (६०५) सजे रिसभे गंधारे, मज्झिमे पंचमे सरे।
धेवते चेव निसाते, सरा सत्त विवाहिता ।। वृ. 'सज्जेत्यादिश्लोकाः षड्भयो जातः षडजः, उक्तं हि॥१॥ "नासां कण्ठमुरस्तालु, जिह्वां दन्तांश्च संश्रितः ।
षभिः सञ्जायते यस्मात्तस्मात् षड्ज इति स्मृतः॥" __-तथा ऋषभो-वृषभस्तद्वद् यो वर्त्तते स ऋषभ इति, आह च॥१॥ “वायुः समुत्थितो नाभेः, कण्ठशीर्ष समाहतः ।
नईत्यृषभवद् यस्मात्, तस्मादृषभ उच्यते॥" तथा गन्धो विद्यते यत्र सगन्धारः स एव गान्धारो, गन्धवाहविशेषः इत्यर्थः, अभाणि हि॥१॥ “वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः ।
नानागन्धावहः पुण्यो, गान्धारस्तेन हेतुना।"
-तथा मध्ये कायस्य भवो मध्यमः, यदवाचि॥१॥ "वायुः समुत्थितो नाभेरुरोहदि समाहतः ।
नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुते ।।" तथा पञ्चानां षड्जादिस्वराणां निर्देदशक्रममाश्रित्य पूरणः पञ्चमः अथवा पञ्चसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org