SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ थानं-७, ४२३ तथा ऋजु-वक्रविपर्यवादभिमुखं श्रुतं-ज्ञानं यस्यासौ ऋजुश्रुतः, ऋजु वा-वर्तमानमजीतानागतवक्रपरित्यागाद्वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः, उक्तं च॥१॥ "उल्टु रिउं सुयं नाणमुज्जु सुयमस्स सोऽयमुज्जुसुओ। सुत्तयइ वा जमुखं पत्थु तेणुज्जुसुत्तोत्ति ।।" अयं हि वर्तमानं निजकं लिङ्गवचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यद्वा न भावो, विनष्टानुत्पन्नत्वाददृश्यत्वात्खपुष्पवत्, तथा परकीयमप्यवस्तु निष्फलत्वात् खकुसुमवत्, तस्माद्वर्तमानं स्वं वस्तु, तच्च न लिङ्गादिभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तटस्तटी तटमिति वचभिन्नमापोजलं नामादिभिन्नं नामस्थापनाद्रव्यभावभिन्नं, आहच ॥१॥ "तम्हा निजगं संपयकालीयं लिंगवयणभिन्नपि । नामादिभेयविहियं पडिवज्जइ वत्थुमुज्जुसुय ।।" ति ४, तथा शपनं शपति वा असौ शप्यते वा तेन वस्त्विति शब्दस्तस्यार्थपरिग्रहादभेदोपचारानयोऽपि शब्द एव, तथा कृतकत्वादिलक्षणहेत्वर्थप्रतिपादकं पदं हेतुरेवोच्यत इति, आह च॥१॥ “सवणं सवइ स तेणं व सप्पए वत्थु जंतओ सद्दो। तस्सऽत्थपरिगहओ नओवि सद्दोत्ति ॥” इति, अयं च नामस्थापनाद्रव्यकुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणाखपुष्पवत्, न च भिन्नलिङ्वचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटा वृक्ष इत्यादिवत्, अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेकमेवेति, आह च॥१॥ "तंचिय रिउसुत्तमयं पञ्चुप्पन्नं विसेसियतरं सो। . इच्छइ भावघडं चियजंन उ नामादओ तिन्नि ।।" -तथा नानार्थेषु नानासंज्ञासमभिरोहणात् समभिरूढः, उक्तंच॥१॥ “जं जं सन्नं भासइतं तं चिय समभिरोहए जम्हा । सन्नंतरत्थविमुहो तओ को समभिरूढोत्ति ॥" अयंहि मन्यते-घटकुटादयः शब्दा भिन्नप्रवृत्तिमित्तत्वाद्भिन्नार्थगोचराः, घटपटादिशब्दवत, तथाचघटनात्घटो विशिष्टचेष्टावानर्थोघटइति, तथा ‘कुट कौटिल्ये कुटनात्कुटः, कौटिल्ययोग्यात् कुट इति, घटोऽन्यः कुटोऽप्यन्य एवेति ६, तथा यथाशब्दार्थ एवं पदार्थो भूतः सन्नित्यर्थोऽन्यथाभूतोऽसन्नितिप्रतिपत्तिपर एवंभूतो नयः, आह च॥१॥ “एवं जहसद्दत्थो संतो भूओ तयऽनहाऽभूओ। तेणेवंभूयनओ सद्दत्थपरो विसेसेणं ।।" इति, अयं हि योषिन्मस्तकव्यवस्थितं चेष्टावन्तमेवा घटशब्दवाच्यं मन्यते, न स्थानभरणादिक्रियान्तरापन्नमिति, भवन्ति चात्र श्लोकाः-- ॥१॥ "शुद्धं द्रव्यं समाश्रित्य, सङ्ग्रहस्तदशुद्धितः । नैगमव्यवहारौ स्तः, शेषाः पर्यायमाश्रिताः ।। अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्यमेवेति, मन्यते नैगमो नयः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy