________________
स्थानं ७,
-
नाभ्यादिस्थानेषु मातीति पञ्चमः स्वरः, यदभ्यधायि
119 11
“वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहतः । पञ्चस्थानोत्थितस्यास्य, पञ्चमत्वं विधीयते ॥" तथा अभिसन्धयते-अनुसन्धयति शेषस्वरानिति निरुक्तिवशाद् धैवतः, यदुक्तम्“अभिसन्धयते यस्मादेतान् पूर्वोत्थितान् स्वरान् । तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ॥"
119 11
पाठान्तरेण रैवतश्चैवेति, तथा निषीदन्ति स्वरा यस्मिन् स निषादः, यतोऽभिहितं॥ १ ॥ "निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना । सर्वांश्चाभिभवत्येष, यदादित्योऽस्य दैवतम् ॥”
इति, तदेव स्वराः सप्त 'वियाहिय'त्ति व्याख्याताः, ननु कार्यं हि कारणायत्तं जिह्वा च स्वरस्य कारणं सा चासङ्घयेयरूपा ततः कथं स्वराणां सङ्ख्यातत्वमिति, उच्यते, असङ्ख्याता अपि विशेषतः स्वराः सामान्यतः सर्वेऽपि सप्तस्वन्तर्भवन्ति, अथवा स्थूलस्वरान् गीतं चाश्रित्य सप्त उक्ताः, आह च-
॥१॥
॥ २ ॥
"कज्जुं करणायत्तं जीहा य सरस्स ता असंखेजा । सरसंखमसंखेज्जा करणस्सासंखयत्ताओ ॥
सत्तय सुत्तनिबद्धा कह न विरोहो ? तओ गुरू आह । सत्तणुवाई सव्वे वायरगहणं च गेयं वा ||" इति स्वरान्नमतोऽभिधाय कारणतस्तन्निरूपणायोपक्रमते
४२५
मू. (६०६) एएसि णं सत्तण्हं सराणं सत्त सरद्वाणा पं० (तं०)
वृ. 'एएसि ण' मित्यादि, तत्प नाभिसमुत्थः स्वरोऽविकारी आभोगेन अनाभोगेन वा यं प्रदेशं प्राप्य विशेषमासादयति तत्स्वरस्योपकारकमिति स्वरस्थानमुच्यते ।
मू. (६०७)
सज्जं तु अग्गजिब्भाते, उरेण रिसभं सरं ।
कंठुग्गतेण गंधारं, मज्झजिब्भाते मज्झिमं ।।
वृ. 'सज्ज' मित्यादिश्लोकद्वयं ब्रूयादिति सर्वत्र क्रिया, षडजं तु प्रथमस्वरमेव अग्रभूता जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थः तया यद्यपि षड्जभणने स्थानान्तराण्यपि व्याप्रियन्ते अग्रजिह्वा वा स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुतरव्यापारवतीतिकृत्वा तथा तमेव ब्रूयादित्यभिहितं, उरो-वक्षस्तेन ऋषभस्वरं, 'कंठुग्गहएण' ति कण्ठश्चासाचुग्रहकश्च उत्कटः कण्ठोग्रकस्तेन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोग्रत्वेन कण्ठाद्वा यदुद्गतं उद्गतिः स्वरोद्गमलक्षणा क्रिया तेन कण्ठोद्गतेन गन्धार, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमं ।
मू. (६०८)
नासाए पंचमं बूया, दंतोट्टेण य धेवतं । मुद्धाणेण य नेसातं, सरठाणा वियाहिता ।।
वृ. तथा दन्ताश्च औष्ठौ च दन्तोष्ठं तेन धैवतं रैवतं वेति । पू. (६०९) सत्त सराजीवनिस्सिता पं०, (तं०)
बृ. 'जीवनिस्सिय'त्ति जीवाश्रिताः जीवेभ्यो वा निःसृता-निर्गताः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org