SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ स्थानं-६, ४०९ घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणां, क्षयोपशम इहऊदीर्णस्यक्षयोऽनुदीर्णस्यच विपाकमधिकृत्योपशम इतिगृह्यते, आह-औपशमिकोऽप्येवंभूत एव, नैवं, तत्रोपशान्तस्य प्रदेशानुभवतोऽप्यवेदनाद् अस्मिंश्च वेदनादिति, अयं च क्षयोपशमः क्रियारूप एवेति, क्षयोपशम एव क्षायोपशमिकः, क्षयोपशमनिष्पन्नस्त्वाभिनिबोधिकज्ञानादिलब्धिपरिणाम आत्मन एव, क्षयोपशमेन निवृत्तःक्षायोपशमिक इति च व्युत्पत्तिरिति, तथा परिणमनं परिणामः-अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमित्यर्थः, उक्तं च॥१॥ “परिणामो ह्यान्तरगमनं न च सर्वथा व्यवस्थानम् । नच सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥" स एव पारिणामिक इत्युच्यते, सच साधनादिभेदेन द्विविधः, तत्र सादिः जीर्णघृतादीनां, तद्भावस्य सादित्वादिति, अनादिपारिणामिकस्तु धर्मास्तिकायादीनां, तद्भावस्य तेषामनादित्वादिति, तथा सन्निपातो-मेलकस्तेन निर्वृत्तःसान्निपातिकः,अयंचैषांपञ्चानामौदयिकादिभावानां द्वयादिसंयोगतः सम्भवासम्भवानपेक्षयाषड्विंशतिभङ्गरूपः, तत्र द्विकसंयोगेदश त्रिकसंयोगेऽपि दशैव चतुष्कसंयोगे पञ्च पञ्चकसंयोगे त्वेक एवेति, सर्वेऽपि षड्विशतिरिति, इह चाविरुद्धाः पञ्चदश सन्निपातिकभेदा इष्यन्ते, ते चैवं भवन्ति-- ॥१॥ "उदइयखओवसमिए परिणामिक्केक गइचउक्केवि। . खयजोगेणवि चउरो तयभावे उवसमेणंपि॥ ॥२॥ उवसमसेढी एको केवलिनोवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइय भेया एमेव पनरस॥" इति, औदयिकक्षायोपशमिकपारिणामिकनिष्पन्नः सान्निपातिक एकैकोगतिचतुष्केऽपि, तद्यथाऔदयिकोनारकत्वं क्षायोपशमिक इन्द्रियाणि पारिणामिको जीवत्वमिति, इत्थं तिर्यग्नरामरेष्वपि योजनीयमिति चत्वारोभेदाः, तथा क्षययोगेनापिचत्वार एव तास्वेव गतिषु, अभिलापस्तुऔदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि क्षायिकः सम्यकत्वं पारिणामिको जीवत्वमिति, एवं तिर्यगादिष्वपि वाच्यं, सन्ति चैतेष्वपि क्षायिकसम्यग्दृष्टयोऽधिकृतभङ्गान्यथानुपपत्तेरिति भावनीयमिति, 'तयभावे'त्ति क्षायिकाभावे चशब्दाच्छेषत्रयभावे चौपशमिकेनापि चत्वार एव, उपशममात्रस्य गतिचतुष्टयेऽपि भावादिति, अभिलापस्तथैव, नवरं सम्यकत्वस्थाने उपशान्तकषायत्वमिति वक्तव्यमेते चाप्टौ भङ्गाः, प्राक्तनाश्चत्वार इति द्वादश, उपशमश्रेण्यामेको भङ्गः तस्या मनुष्येष्वेव भावात्, अभिलापः पूर्ववत्, नवरं मनुष्यविषय एव, केवलिनश्चैक एव औदयिको मानुषत्वं क्षायिकः सम्यकत्वं पारिणामिको जीवत्वं, तथैव सिद्धस्यैकएव, क्षायिकः सम्यकत्वंपारिणामिकोजीवत्वमिति, एवमेतैस्त्रिभिभङ्गैः सहिताः प्रागुक्ताः द्वादश अविरुद्धसान्निपातिकभेदाः पञ्चदश भवन्तीति, अपिच॥१॥"उवसमिए २ खइएऽविय ९ खयउवसम १८ उदय २१ पारिणामे य ३ । दो नव अट्ठारसगं इगवीसा तिन्नि भेएणं॥ ॥२॥ सम्म १ चरिते २ पढमे दंसण १ नाणे य २ दान ३ लाभे य४। उवभोग ५ भोग ६ वीरिय७ सम्म ८ चरित्ते य ९ तए बीए २ ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy