SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ४०८ स्थानाङ्गसूत्रम् ६/-/५८७ "छम्मासावसेसाउय'त्ति षण्मासा अवशेषा-अवशिष्टा यस्य तत्तथा तदायुर्येषां ते षण्मासावशेषायुष्काः, परभवो विद्यतेयस्मिंस्तत्परभविकंतचतदायुश्चेति परभविकायुः प्रकुर्वन्ति' वध्नन्ति, असद्धयेयानि वर्षाण्यायुर्वेषांते तथा तेचतेसंज्ञिनश्च-समनस्काः पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः, इह च संज्ञिग्रहणमसङ्खयेयवर्षायुष्काः संज्ञिन एव भवन्तीति नियमदर्शनार्थं, न त्वसङ्ख्येयवर्षायुषामसंज्ञिनां व्यवच्छेदार्थ, तेषामसंभवादिति, इह च गाथे॥१॥ “निरइसुरअसंखाऊ तिरिमणुआ सेसए उ छम्मासे । इगविगला निरुवक्कमतिरिमणुया आउयतिभागे। ॥२॥ “अवसेसा सोवक्कम तिभागनवभागसत्तवीसइमे । बंधंति परभवाउं निययभवे सव्वजीवा उ ॥” इति, इदमेवान्यरित्थमुक्तम्-इह तिर्यङ्मनुष्या आत्मीयायुषस्तृतीयत्रिभागे परभवायुषो बन्धयोग्या भवन्ति, देवनारकाः पुनः षण्मासे शेषे, तत्र तिर्यङ्मनुष्यैर्यदि तृतीयत्रिभागे आयुर्न बद्धं ततः पुनस्तृतीयत्रिभागस्यतृतीयत्रिभागेशेषेवनन्ति, एवंतावत् सङ्क्षिप्तन्त्वायुर्यावत्सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्च शेषस्तिष्ठति इह तिर्यङ्मनुष्या आयुर्बध्नन्ति, अयं चासङ्ग्रेपकाल उच्यते, तथा देवनैरयिकैरपि यदि षण्मासे शेषे आयुर्न बद्धं तत आत्मीयस्यायुषः षण्मासशेषं तावत्सङ्क्षिपन्ति यावत्सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्चावशेषोऽवतिष्ठते इह परभवायुर्देवनैरयिका बध्नन्तीत्ययमसझेपकालः | मू. (५८८) छविधे भावे पं० २०-ओदतिते उवसमिते खतिते खतोवसमिते पारिणामिते सन्निवाइए। वृ. अनन्तरमायुःकर्मबन्ध उक्तः, आयुः पुनरौदयिकभावहेतुरित्यौदयिकभावं भावसाधाच्छेषभावांश्च प्रतिपादयन्नाह-'छब्बिहे भावे' इत्यादि, भवनं भावः पर्याय इत्यर्थः, तत्रौदधिको द्विविधः-उदय उदयनिष्पनश्च, तत्रोदयोऽष्टानां कर्मप्रकृतीनामुदयः-शान्तावस्थापरित्यागेनोदीरणावलिकामतिक्रम्योदयावलिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, अत्र चैवं व्युत्पत्तिः-उदय एवौदयिकः, उदयनिष्पन्नस्तु कर्मोदयजनितो जीवस्य मानुषत्वादिः पर्यायः, तत्र च उदयेन निवृत्तस्तत्र वा भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति, तथा औपशमिकोऽपि द्विविधः-उपशम उपशमनिष्पन्नश्च, तत्रोपशमो [दर्शन] मोहनीयकर्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपशमश्रेणिप्रतिपन्नस्य [वा] मोहनीयभेदान् अनन्तानुबन्ध्यादीनुपशमयतः, उदयाभाव इत्यर्थः, उपशम एवौपशमिकः, उपशमनिष्पन्नस्तु उपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, तत्रच व्युत्पत्तिः-उपशमेन निवृत्त औपशमिक इति, तथा क्षायिको द्विविधः-क्षयः क्षयनिष्पन्नश्च, तत्र क्षयोऽष्टानां कर्मप्रकृतीनां ज्ञानावरणादिभेदानां, क्षयः काभावएवेत्यर्थः, तत्र क्षय एव क्षायिकः,क्षयनिष्पन्नस्तुतत्फलरूपोविचित्र आत्मपरिणामः केवलज्ञानदर्शनचारित्रादिः, तत्र क्षयेण निवृत्तः क्षायिक इति व्युत्पत्तिः, तथा क्षायोपशमिको द्विविधः-क्षयोपशमः क्षयोपशमनिष्पन्नश्च, तत्र क्षयोपशमश्चतुर्णा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy