SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३८ ॥ १ ॥ स्थानाङ्ग सूत्रम् १/-/५१ आभ्यां विशषितोऽन्यो दण्डकः २ 'एगा सम्मद्दिट्ठियाणं' मित्यादि, सम्यग् - अविपरीता दृष्टिः- दर्शनं रुचिस्तत्त्वानि प्रति येषां ते सम्यग्धष्टिकाः, तेच मिथ्यात्वमोहनीयक्षयक्षयोपशमोपशमेभ्यो भवन्ति, तथा मिथ्या विपर्यासवती जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टि:- दर्शनं श्रद्धानं येषां ते मिथ्यादृष्टिकाः -मिथ्यात्वमोहनीयकर्मोदयादरुचितजिनवचना इति भावः, उक्तञ्च ॥१॥ 'दव्वाइत्ते तुल्ले जीवनभाणं सभावओ भेदो । जीवाजीवाइओ जह तह भव्वेयरविसेसा" त्ति, “सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्याष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् " इति । तथा सम्यक् मिथ्या च दृष्टिर्येषां ते सम्यग्मिथ्याष्टिकाः-जिनोक्तभावान् प्रत्युदासीनाः, इह च गम्भीरभवोदधिमध्यविपरिवर्त्ती जन्तुरनाभोगनिर्वर्त्तितेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्तिकरणेन संपादितान्तः- सागरोपमकोटाकोटीस्थितिकस्य मिथ्यात्ववेदनीयस्य कर्मणः स्थितेरन्तर्मुहूर्त्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तिकरणसंज्ञिताभ्यां विशुद्धिविशेषाभ्यामन्तर्मुहूर्तकालप्रमाणमन्तरकरणं करोति, तस्मिन्कृते तस्य कर्म्मणः स्थितिद्वयं भवति, अनन्तरकरणादधस्तनी प्रथमस्थितिरन्तुर्मुहूर्तमात्रा, तस्मादेवोपरितनी शेषा, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिः, अन्तर्मुहूर्त्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यकत्वमाप्नोति, मिध्यात्वदलिकवेदनाऽभावात्, यथा हि दवानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायतीति, तदेवं सम्यकत्वमौषधविशेषकल्पमासाद्य मदनकोद्रवस्थानीयं दर्शनमोहनीयमशुद्धं कर्म त्रिधा भवति अशुद्धमर्धविशुद्धं विशुद्धं चेति त्रयाणां तेषां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशादर्द्धविशुद्धमर्हद्दू टतत्वश्रद्धानं भवति जीवस्य, तेन तदाऽसौ सम्यग्मिध्याधष्टिर्भवति अन्तर्मूहूत्त्व यावत्, तत ऊर्ध्वंसम्यकत्वपुत्रं मिध्यात्वपुत्रं वा गच्छतीति, सम्यग् ष्टिमिथ्याष्टिमिश्रविशेषितोऽन्यो दण्डकः, तत्र च नारकादिष्वेकादशसु पदेषु दर्शनत्रयमस्ति, अत उक्तम्'एवं जाव थणिए' त्यादि, पृथिव्यादीनां मिथ्यात्वमेव, तेन तेषां तेनैव व्यपदेशः, उक्तञ्च- 'चोद्दस तस सेसया मिच्छत्ति चतुर्द्दशगुणस्थानकवन्तस्त्रसाः स्थावरास्तु मिथ्याद्दष्ट्य एवेत्यर्थः । द्वीन्द्रियादीनां मिश्रं नास्ति, संज्ञिनामेव तद्भावात्, ततस्तेषु सम्यग्द्दष्टिमिथ्याद्दष्टितयैव व्यपदेशः, एवं 'तेइंदियाणवि चउरिंदियाणवि त्ति द्वीन्द्रियवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम, पञ्चेन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तद्र्व्यपदेशः, अत एवोक्तम्'सेसा जहा नेरइय'त्ति, तथा वाच्या इति शेषः, दण्डकपर्यन्तसूत्रं पुनरिदम् 'एगा सम्मद्दिट्ठियाणं वेमाणियाणं वग्गणा, एवं मिच्छद्द्द्दिट्ठियाणं, एवं सम्मामिच्छादिट्ठियाणं, एतत्पर्यन्तमाह-जाब एगा सम्मामिच्छेत्यादि ३ । 'एगा कण्हपक्खियाणं' इत्यादि, कृष्णपाक्षिकेतरयोर्लक्षणं"जेसिमवड्ढो पोग्गलपरियट्टो सेसओ उ संसारो । 4 119 11 ते सुक्क पक्खिया खलु अहिए पुण किण्हपक्खीआ " इति, एतद्विशेषितोऽन्यो दण्डकः ४ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy