SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ स्थानं - १, - उद्देशकः - ३७ इति, तेषामसुरादिविशेषः पुनराप्तवचनादवसेय इति । अथ पृथिव्यप्तेजोवायुवनस्पतिकायिकाः कथमिह जीवत्वेन प्रतिपत्तव्याः ?, उच्छासादिप्राणिधर्माणां तेष्वप्रतीयमानत्वाद्, अनोच्यते, आप्तवचनादनुमानतश्च, तत्राप्तवचनमिदमेव, अनुमानं त्विदं-वनस्पतयो विद्रुमलवणोपलादयः स्वस्वाश्रयेवर्तमानाः सात्मकः, समानजातीयाङकुरसद्मावाद्, अझेविकाराङ्कुरवत्, आह च॥१॥ "मंसंकुरोव्व सामाणजाइरूवंकुरोवलंभाओ। तरुगणविहुमलवणोपलादयो सासयावत्था" इति, इह समानजातिग्रहणं शृङ्गाङकुरव्यवच्छेदार्थं, स हि न समानजातीयो भवतीति, तथा सात्मकमम्भो भौम, भूमिखनने स्वाभाविकसम्भवाद्, दर्दुरवत्, अथवा सात्मकमन्तरिक्षोदकं स्वभावतो व्योमसम्भूतस्य पातात्, मत्स्यवत्, आह च॥१॥"भूमिक्खयसाभावियसंभवओ दडुरोव्व जलमुत्तं" (सात्मकत्वेने । ति) अहवा मच्छोव सहाववोमसंभूयपायाओ" इति, तथा सात्मको वायुरपरप्रेरिततिर्यगनियतदिग्गतित्वाद् गोवत्, इहचापरप्रेरितग्रहणेन लेप्टादिना व्यभिचारः परिहतः, एवं तिर्यग्ग्रहणेनोर्ध्वगतिना धूमेनानियमितग्रहणेन च नियमितगतिना परमाणुनेति, तथा तेजः सात्मकमाहारोपादानात्तवृद्धिविशेषोपलव्धेस्तद्विकारदर्शनाच्च पुरुषवद्, आह च॥१॥ “अपरप्पेरियतिरियानियमियदिग्गमणओऽनिलो गोव्व । अनलोआहाराओ विद्धिविगारोवलंभाओ "त्ति, अथवा पृथिव्यप्तेज़ोवायवो जीवशरीराणि, अभ्रादिविकारवर्जितमूर्तजातीयत्वात्, गवादिशरीरवदिति, अभ्रादिविकारा हि मूर्तजातीयत्वे सत्यपि न जीवतनवस्तेन तत्परिहारो हेतुविशेषणम्, आह च॥१॥ "तणओऽणब्भाइविगारमुत्तजाइत्तओऽनिलंताई - सत्थासत्थहयाओ निजीवसजीवरूवाओ"त्ति, -वनस्पतीनां विशेषेण सचेतनत्वं भाष्यगाथाभिरभिधीयते॥१॥ “जम्मजराजीवणमरणरोहणाहारदोहलामयओ। रोगतिगिच्छाईहि य नारिव्व सचेयणा तरवो ॥२॥ छिक्क प्परोइया छिक्क मित्तसंकोयओ कुलिंगिव्व ।। आसयसंचाराओ वियत्त ! वल्ली वियाणाहि" सम्पादयो व सावप्पबोहसंकोयणादिओऽभिमया। बउलादयो य सद्दाइविसयकालोवलंभाओ त्ति [“सम्मादउत्तिशम्यादयः ‘विसयकालोवलंभाओ'त्ति विषयाणां-गीतसुरागण्डूषकामिनीचरणताडनादीनां कालो वसन्तादिरिति] १ “एगा भवसिद्धियेत्यादि, भविष्यतीति भवा-भाविनी सासिद्धिः-निवृतिर्येषांतेभवसद्धिकाभव्याः, तद्विपरीतास्त्वभवसिद्धिका अभव्या इत्यर्थः । ननु जीवत्वे समाने सति को भव्याभव्ययोर्विशेषः?, उच्यते, स्वभभावकृतो, द्रव्यत्वेन समानयोर्जीवनभतोरिव, आह च HALE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy