SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ स्थानं - १, - उद्देशक: ३९ 'एगा कण्हलेसाण' मित्यादि, लिश्यते प्राणी कर्मणा यया सा लेश्या, यदाह - "श्लेष इव वर्णबन्धस्य कर्म्मबन्धस्थितिविधात्र्यः” तथा 119 11 इयं च शरीरनामकर्म्मपरिणतिरूपा योगपरिणतिरूपत्वात्, योगस्य च शरीरनामकर्म्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता-“योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या ?, यस्मात् सयोगिकेवली शुक्लले श्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्व च प्राप्नोति अतोऽवगम्यते 'योगपरिणामो लेश्ये 'ति, स पुनर्योगः शरीरनामकर्म्मपरिणतिविशेषः, यस्मादुक्तम्- "कर्म्म हि कार्मणस्य कारणमन्येषां च शरीराणा" मिति,” तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः १, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स वाग्योगः २, तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनोयोग इति ३. ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति, अन्ये तु व्याचक्षते - 'कर्म्मनिस्यन्दो लेश्ये' ति, सा च द्रव्यभावभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणाम इति, इयं च षट्प्रकारा जम्बूफलखादकपुरुषषट्कद्दष्टान्ताद् ग्रामघातकचौरपुरुषषट्कद्दष्टान्ताद्वा आगमप्रसिद्धादवसेयेति, तत्सूत्राणि सुगमानि नवरं कृष्णवर्णद्रव्यसाचिव्यात् जाताऽशुभपरिणामरूपा कृष्णा सा लेश्या येषां ते तथा, एवं शेषाण्यपि पदानि, नवरं नीला ईषत्सुन्दररूपैवमिति अनेनैव क्रमेण यावत्करणात् 'एगा कावोयलेस्साण' मित्यादि सूत्रत्रयं श्यं, तत्र कपोतस्य-पक्षिविशेषस्य वर्णेन तुल्यानि यानि द्रव्याणि धूम्राणि इत्यर्थः, तत्साहाय्याज्जाता कातलेश्या मनाक् शुभतरा सा लेश्या येषां ते तथा, तेजःअग्निज्वाला तद्वर्णानि यानि द्रव्याणि लोहितानीत्यर्थः, तत्साचिव्याज्जाता तेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्थः तत्साचिव्याज्जाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ला, अत्यन्तशुभेति, एतासांच विशेषतः स्वपूपं लेश्याध्ययनादवसेयमिति, 'एवं जस्स जइ'त्ति नारकाणामिव यस्यासुरादेर्या यान्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यं, 'भवणे' त्यादिना तल्लेश्यापरिमाणमाह, अत्र सङग्रहणी - 119 11 "काऊ नीला किण्हा लेसाओ तिन्नि होंति नरएसुं । तइयाए काउनीला नीला किण्हा य रिट्ठाए किण्हा नीला काऊ तेऊलेसा य भवनवंतरिया । जोइससोहमीसाणं तेउलेसा मुणेयच्वा ॥२॥ "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायंलेश्याशब्दः प्रयुज्यते " इति, ॥३॥ ॥ ४ ॥ Jain Education International कप्पे सणकुमारे माहिंदे चेव बंभलोएय । सु पम्हसा तेण परं सुक्कलेसा उ पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि । गमयतिरियन रेसुं छल्लेसातिनि सेसाणं " अयं सामान्यो लेश्यादण्डकः ५ । For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy