________________
स्थानं - ६,
119 11
अनेन च व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तम्, गाथा"खामिय वोसमियाई अहिगरणाई तु जे उदीरेंति । ते पावा नायव्वा तेसिं चारोवणा इणमो ||" इति, -अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह-
मू. (५७९) छ कप्परस पत्थारा पं० तं०-पाणातिवायस्स वायं वयमाणे १ मुसावायस्स वादं वयमाणे २ अदिन्नादाणस्स वादं वयमाणे ३ अविरतिवायं वयमाणे ४ अपुरिसवातं वयमाणे ५ दासवायं वयमाणे ६ इच्चेते छ कप्पस्स पत्थारे पत्थरेत्ता सम्ममपरिपूरेमाणो तट्ठाणपत्त )
वृ. 'छ कप्पे 'त्यादि, कल्पः-साध्वाचारस्तस्य सम्बन्धिनस्तद्विशुध्ध्यर्थत्वात् प्रस्ताराःप्रायश्चित्तस्य रचनाविशेषाः, तत्र प्राणातिपातस्य वादं- वार्त्ता चाचं वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्येकः, यथा अन्यजनविनाशितदर्दुरे न्यस्तपादं भिक्षुमुपलभ्य क्षुल्लक आह-साधो ! दर्दुरो भवता मारितः, भिक्षुराह-नैवं, क्षुल्लक आह- द्वितीयमपि व्रतं ते नास्ति, ततः क्षुल्लको भिक्षाचर्यातो निवृत्त्याचार्यसमीपमागच्छीत्येकं प्रायश्चित्तस्थानं, ततः साधयति यथा तेन दर्दुरो भवता मारितः इति प्रायश्चित्तान्तरं ततोऽभ्याख्यातसाधुराचार्येणोक्तः यथा दर्दुरो भवता मारितः ?,
असावाह-नैवमिह क्षुल्लकस्य प्रायश्चित्तान्तरं पुनः क्षुल्लक आह-पुनरप्यपललपसीति, भिक्षुराह-गृहस्थाः पृच्छयन्तां, वृषभा गत्वा पृच्छन्तीति प्रायश्चित्तान्तरमित्येवं योऽभ्याख्याति तस्य मृषावाददोष एव, यस्तु सत्यमारितं निह्नुते तस्य दोषद्वयमिति १, अत्रोक्तम्"ओमो चोइजंतो दुपहियाएस संपसारेइ । अहमवि णं जोइस्सं न य लभए तारिसं छिद्दं ॥
119 11
अन्त्रेण घाइए दद्दुरंमि दद्धुं चलण कय ओमो ।
बहिओ हा सु तुमे नवत्ति बीयंपि ते नत्थि ॥" इत्यादि,
तथा मृषावादस्य सत्कं वादं विकल्पनं वार्त्ता वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीति, तथाहि - क्वचित् संखड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो मुहूर्त्तन्तरे रत्नाधिकेनोक्तम्-व्रजामः संखड्यामिदानीं भोजनकालो यतस्तत्रेति, लघुर्भणति प्रतिषिद्धोऽहं न पुनर्व्रजामि, ततोऽसौ निवृत्त्याचार्यायेदमालोचयति यथा- अयं दीनकरुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति एषणां प्रेरयतीत्यादि, ततो रत्नाधिकमाचार्यो भणति - साधो ! भवानेवं करोति ?, स आह-नैवमित्यादि, पूर्ववत्प्रस्तारः २, इहाप्युक्तम्
189 11
"मोसंमि संखडीए मोयगगहणं अदत्तदानंमि । आरोवणपत्यारो तं चैव इमं तु नाणत्तं ॥
दीनकलुणेहिं जायइ पडिसिद्धो विसइ एसणं हणइ । जंप मुहपयाणि य जोगतिगिच्छानिमित्ताई ॥" इत्यादि,
॥ २ ॥
॥ २ ॥
४०१
एवमदत्तादानस्य वादं वदति, अत्र भावना एकत्र गेहे भिक्षा लब्धा सा अवमेन गृहीता यावदसौ भाजनं संमार्ष्टि तावद्रनाधिकेन संखड्यां मोदका लब्धास्तानमवो दृष्ट्वा निवृत्त्याचार्यस्यालोचयति-यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति ३, एवमविरतिः - अब्रह्म तद्वादं वार्तातं वा अथवा न विद्यते विरतिर्यस्याः सा अविरतिका - स्त्री तद्वादं
3 26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org