________________
४००
स्थानाङ्ग सूत्रम् ६/-/५७६
बृ. 'आभी' त्यादि, सुगमं, नवरं अर्थस्य सामान्यस्य श्रोत्रेन्द्रियाधिभिः प्रथममविकल्प्यं शब्दोऽयमित्यादिविकल्परूपं चोत्तरविशेषापेक्षया सामान्यस्यावग्रहणमर्थावग्रहः, स च नैश्चयिक एकसामयिको व्यावहारिकस्त्वान्तमहर्त्तिकः, अर्थविशेषितत्वाद् व्यञ्जनावग्रहव्युदासः, स हि चतुर्धा ।
मू. (५७७) छव्विहे ओहिनाणे पं० तं०-आनुगामिते अनानुगामिते वहुमाणते हीयमाणते पडिवाती अपडिवाती ।
वृ. 'आनुगामिए 'त्ति अननुगमनशीलमनुगामि तदेवानुगामिकं देशान्तरगतमपि ज्ञानिनं यदनुगच्छति लोचनवदिति, यत्तु तद्देशस्थस्यैव भवति तद्देशनिबन्धनक्षयोपशमजत्वात् स्थानस्थदीपवद् देशान्तरगतस्य त्वपैति तदनानुगामिकमिति, उक्तं च“अनुगामिओऽनुगच्छइ गच्छन्तं लोअणं जहा पुरिसं । इयरो य नानुगच्छइ ठिअप्पईवोव्व गच्छंतं ॥” इति
11911
यत्तु क्षेत्रतोऽङ्गुलासङ्घयेयभागविषयं कालत आवलिकासङ्घयेयभागविषयं द्रव्यतस्तेजोभाषाद्रव्यान्तरालवर्त्तिद्रव्यविषयं भावतस्तद्गतसङ्घयेयपर्यायविषयं च जघन्यतः समुत्पद्य पुनर्वृद्धिविषयविस्तरणात्मकां गच्छदुत्कर्षेणालोके लोकप्रमाणान्यसङ्घयनि खण्डान्यसङ्ख्ये उत्सर्पिण्यवसर्पिणीः सर्वरूपिद्रव्याणि प्रतिद्रव्यमसङ्घयेयपर्यायांश्च विषयीकरोति तद्वर्द्धमानमिति, उक्तं च---
119 11
“पइसमयमसंखेज्जइभागहियं कोइ संखभागहियं । अन्नो संखेज्जगुणं खेत्तमसंखेज्जगुणमन्नो ॥
पेच्छ विवमाणं हायंतं वा तहेव कालंपि” इत्यादि,
तथा यज्जधन्येनाङ्गुलासङ्घयेयभागविषयमुत्कर्षेण सर्वलोकविषयमुत्पद्य पुनः सङ्कलेशवशात् क्रमेण हानिं विषयसङ्कोचात्मिकां याति यावदङ्गुलासङ्घयेयभागंतद्धीयमानमिति, तथा प्रतिपतनशीलं प्रतिपाति-उत्कर्षेणलोकविषयं भूत्वा प्रतिपतति, तथा तद्विपरीतमप्रतिपाति, येनालोकस्य प्रदेशोऽपि दृष्टस्तदप्रतिपात्येवेति, आह च - " उक्कोस लोगमित्तो पडिवाइ परं अपडिवाइ" इति । एवंविधज्ञानवतां च यानि वचनानि वक्तुं न कल्पन्ते तान्याह
मू. (५७८) नो कप्पइ निग्गंथाण वा २ इमाई छ अवतणाई वदित्तते तं०-अलियवयणे हीलि अवयणे खिंसितवयणे फरुसवयणे गारत्तियवयणे विउसवितं वा पुणो दडीरित्तत ।
वृ. 'नो कप्पती' त्यादि कण्ठ्यं, नवरं 'अवयणाइं' ति नञः कुत्सार्थत्वात् कुत्सितानि वचनानि अवचनानि, तत्रालीकं-प्रचलायसे किं दिवेत्यादिप्रश्ने न प्रचलाये इत्यादि, हीलितं -सासूयं गणिन् वाचक ! ज्येष्ठार्येत्यादि, खिंसितं - जन्मकर्माद्युद्घट्टनतः पुरुषं दुष्ट शैक्षेत्यादि 'गारं 'ति अगारंगेहं तद्वृ त्तयो अगारस्थिता गृहिणः तेषां यत्तदगारस्थितवचनं पुत्र मामक भागिनेयेत्यादि, उक्तं
च
119 11
“अरिरे माहणपुत्ता अव्वो बप्पोत्ति भाय मामोत्ति ।
भट्टिय सामिय गोमिय (लहओ लहुआ य गुरुआ ।। " ) त्ति
व्यवशमितं वा-उपशमितं वा पुनरुदीरयितुं न कल्पत इति प्रक्रमोऽवचनत्वादस्येति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org