________________
स्थानाङ्ग सूत्रम् ६/-/५६८ द्वितीयमपार्द्ध यत्र तत् द्व्यापार्द्ध सार्द्धमित्यर्थः, क्षेत्रं येषा तानि तथा, यतः पञ्चचत्वारिंशन्मुहूर्तानीति, अन्यानि दश पश्चिमयोगानि, पूर्वभागादिनक्षत्राणां गुणोऽयं । “उक्तक्रमेण नक्षत्रैर्युज्यमानस्तु चन्द्रमाः ।
119 11
सुभिक्षकृद्विपरीतं युज्यमानोऽन्यथा भवेत् ॥” इति ।
३९८
अनन्तरं चन्द्रव्यतिकर उक्त इति किञ्चिच्छन्दसाम्यात्तद्वर्णसाम्याद्वा अभिचन्द्रकुलकरसूत्रं, तद्वंशजन्मसम्बन्धाद्भरतसूत्रं पार्श्वनाथसूत्रं च, जिनसाधर्म्याद्वासुपूज्यसूत्रं चन्द्रप्रभसूत्रं चाहमू. (५६९) अभिचंदे णं कुलकरे छ धणुसयाई उहूं उच्चत्तेणं हुत्था ।
बृ. 'अभिचंदे'त्यादि, सुगमानि चैतानि, नवरं अभिचन्द्रोऽमुष्यामवसर्पिण्यां चतुर्थः कुलकरः ।
मू. (५७०) भरहे णं राया चाउरंतचक्कवट्टी छ पुव्वसतसहस्साई महाराया हुत्या । वृ. 'चाउरंत 'त्ति चत्वारोऽन्ताः समुद्रत्रयहिमवल्लक्षणा यस्यां सा चतुरन्ता पृथ्वी तस्या अयं स्वामीति चातुरन्तः सचासौ चक्रवर्ती चेतिचातुरन्तचक्रवर्ती, षट् पूर्वशतसहाणि - तल्लक्षाणि, पूर्वं तु चतुरशीतिर्वर्षलक्षाणां तद्गुणेति ।
मू. (५७१) पासस्स णं अरहओ पुरिसादानियस्स छ सता वादीणं सदेवमणुयासुराते परिसाते अपराजियाणं संपया होत्था । वासुपुचे णं अरहा छहिं पुरिसतेहिं सद्धिं मुंडे जाव पव्वइते चंदप्पभे णं अरहा छम्मासे छउमत्थे हुत्था ।
वृ. 'आदानी यस्स' त्ति आदीयते-उपादीयते इत्यादानीयः उपादेय इत्यर्थः, पुरुषाणां मध्ये आदानीयः पुरुषश्चासावादानीयश्चेति वा पुरुषादानीयस्तस्य ।
चन्द्रप्रभस्य षण्मासानिह छद्मस्थपर्यायो दृश्यते आवश्यके तु पद्मप्रभस्यासौ पठ्यते, चन्द्रप्रभस्य तु त्रीनिति मतान्तरमिदमिति । छद्मस्थश्चेन्द्रियोपयोगवान् भवतीतिन्द्रियप्रत्यासत्त्या त्रीन्द्रियाश्रितं संयममसंयमं च प्रतिपादयन् सूत्रद्वयमाह
मू. (५७२) तेतिंदियाणं जीवाणं असमारभामाणस्स छव्विहे संजमे कज्जति, तं०-घाणामातो सोक्खातो अववरोवेत्ता भवति घाणामएणं दुक्खेणं असंजोएत्ता भवति, जिब्भामातो सोक्खातो अवरोवेत्ता भवइ० एवं चैव फासामातोवि। तेइंदियाणं जीवाणं समारभमाणस्स छव्विहे असंजमे कजति, तं०-घाणामातो सोक्खातो ववरोवेत्ता भवति, घाणामएणं दुक्खेणं संजोगेत्ता भवति, जाव फासमतेणं दुक्खेणं संजोगेत्ता भवति ।
बृ. 'तेईदिए' त्यादि कण्ठ्यं, नवरं 'असमारभमाणस्स' त्ति अव्यापादयतः, 'घाणामाउ' त्ति घ्राणमयात्सौख्यात् गन्धोपादानरूपात् अव्यपरोपयिता - अभ्रंशकः, घ्राणमयेन गन्धोपलम्भाभावरूपेण दुःखोना संयोजयिता भवति, इह चाव्यपरोपणमसंयोजनं च संयमोऽनाश्रवरूपत्वादितरदसंयम इति ॥ इयं च संयमासंयमप्ररूपणा मनुष्यक्षेत्र एवेति मनुष्यक्षेत्रगतषट्स्थानकावतारि वस्तुप्ररूपणाप्रकरणं 'जंबुद्दीवे' त्यादिकं पञ्चपञ्चाशत्सूत्रप्रमाणमाह
मू. (५७३) जंबुद्दीवे २ छ अकम्मभूमीओ पं० तं०-हेमवते हेरन्नवते हरिवस्से रम्भगवासे देवकुरा उत्तरकुरा १ | जंबुद्दीवे २ छव्वासा पं० तं०-भरहे एरवते हेमवते हेरन्नवए हरिवासे रम्मगवासे २ | जंबुद्दीवे २ छ वासहरपव्वता पं० तं० - चुल्लहिमवंते महाहिमवंते निसढे नीलवंते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org