SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ स्थानं - ६, - इह तु दक्षिणानामेषां विवक्षितत्वेन लोलावशिष्ट इत्यादिवक्तव्येऽपि सामान्याभिधानमेव निर्व्विशेषं विवक्षितमिति सम्भाव्यते । 'चउत्थीए' ति पङ्कप्रभायां अपक्रान्ता अपकान्ता वेत्यादि तथैव, इह च सप्त प्रस्तटाः सप्तैव नरकेन्द्रकाः, यथोक्तम् ॥२॥ "आरे मारे नारे तत्थे तमाए य होइ बोद्धव्वे । खाडखडे व खडखडे इंदयनिरया चउत्थीए ॥ " इति, तदेवं आरा मारा खाडखडा नरकेन्द्रकाः, अन्ये तु वाररोररोरुकाख्यायः प्रकीर्णकाः, अथवा इन्द्रका एव नामान्तरैरुक्ता इति सम्भाव्यत इति । अनन्तरमसाधुचर्याफलभोक्तृस्थानान्युक्तानीतश्च साधुचर्याफलभोक्तृस्थानविशेषानाह मू. (५६७) बंभलोगे णं कप्पे छ विमाणपत्थडा पं० तं० - अरते विरतेणीरते नीम्मले वितिमिरे विसुद्धे । -- 11911 वृ. 'बंभे'त्यादि, 'बंभलोए' त्ति पञ्चमदेवलोके षडेव विमानप्रस्तटाः प्रज्ञप्ताः, आह च-“तेरस बारस छ पंच चेव चत्तारि चउसु कप्पेसु । वेतिय तिय एगो य अनुत्तरेसु १ भवे ।।" त्ति १३-१२-६-५-१६-९-१= सर्वेऽपि ६२, तद्यथा अरजा इत्यादि सुगममेवेति । अनन्तरंविमानवक्तव्यतोक्तेति तव्यस्तावान्नक्षत्रविमानवक्तव्यतां सूत्रत्रयेणाह मू. (५६८) चंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ नक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं० तं०- पुव्वाभद्दवया कत्तिता महा पुव्वाफग्गुणी मूलो पुव्वासाढा । चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ नक्खत्ता नत्तंभागा अवढक्खेत्ता पन्नरसमुहुत्ता पं० तं०-सयभिसता भरणी अद्दा अस्सेसा साती जेट्ठा। चंदस्स णं जोइसिंदस्स जोतिसरन्नो छ नक्खत्ता उभयंभागा दिवखेत्ता पणयालीसमुहुत्ता पं० तं०-रोहिणी पुनव्वसू उत्तराफग्गुणी बिसाहा उत्तरासाढा उत्तराभद्द्रवया । ३९७ वृ. 'चंदस्से' त्यादि व्यक्तं, नवरं 'पुव्वंभाग 'त्ति पूर्वमिति - पूर्वभागेनाग्रेणेत्यर्थो भज्यन्ते अप्राप्तेनैव चन्द्रेण सेव्यन्ते युज्यन्ते इतियावदिति पूर्वभागानि, अनुस्वारश्च प्राकृतत्वादिति, चन्द्रस्याग्रयोगीनि, चन्द्रएतान्यप्राप्तो भुङ्कतइति लोक श्रीप्रोक्ता भावनेति, उक्तं च तत्रैव “पुय्वा तिन्निय मूलो मह कित्तिय अग्गिमा जोगा" इति, 'समं' स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्त्तभोग्यं क्षेत्रं- आकाशदेशलक्षणं येषां तानि समक्षेत्राणि, अत एवाह-‘त्रिंशन्महूर्त्तानि' त्रिंशतं मुहूर्त्ताश्चन्द्रभोगो येषां तानि तथा, 'नंतंभाग' त्ति नक्तं भागानि चन्द्रस्य समयोगीनीत्यर्थः, उक्तं च "अद्दाऽ सेसा साई सचभिसमभिई य जेट्ट समजोगा" केवलं भरणीस्थाने लोकश्रीसूत्रे अभिजिदुक्तेति मतविशेषो दृश्यत इति, अपार्द्धसमक्षेत्रापेक्षया अर्द्धमेव क्षेत्रं येषां तानि तथा, अर्द्धक्षेत्रत्वमेवाह - 'पंचदशमुहूर्त्तानी' ति, 'उभयभाग'त्तिचन्द्रेणोभयतः-उभयभागाभ्यां पूर्वतः पश्चाच्चेत्यर्थो भज्यन्ते भुज्यन्ते यानि तान्युभयभागानि, चन्द्रस्य पूर्वतः पृष्ठतश्च भोगमुपगच्छन्तीत्यर्थः इति भावना लोकश्रीभणितेति, उक्तं च"उत्तरतिनि विसाहा पुनव्वसू रोहिणी उभयजोगा ।।" इति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy