________________
३९६
स्थानाङ्ग सूत्रम् ६/-/५६५ अनन्तरंसाधुचर्योक्तेतिचर्याप्रस्तावादसाधुचर्याफलभोक्तृस्थानविशेषाभिधानाय सूत्रद्वयं
मू. (५६६) जंबुद्दीवे २ मंदरस्स पव्वयस्स य दाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवकंतमहानिरता पं० २०-लोले लोलुए उदड्ढे निदड्डे जरते पजरते, चउत्थीए णं पंकप्पभाए पुढवीते छ अवकंता महानिरता पं० २०-आरे वारे मारे रोरे रोरुते खाडखडे।
वृ. 'जंबूद्दीवे' त्यादि सुगम, नवरं 'अवकंत'त्ति अपक्रान्ताः-सर्वशुभभावेभ्योऽपगताभ्रष्टास्तदन्येभ्योऽतिनिकृष्टा इत्यर्थः, अपकान्ता वा-अकमनीयाः, सर्वेऽप्येवमेव नरकाः, विशेषतश्चैते इति दर्शनार्थं विशेषणमिति सम्भाव्यते, तेचते महानरकाश्चेति विग्रहः, एतेषां चैवं प्ररूपणा॥१॥ "तेरिकारस नव सत्त पंच तिन्नेव होंति एक्को य ।
पत्थडसङखा एसा सत्तसुवि कमेण पुढविसुं।" एवमेकोनपञ्चाशप्रस्तटाः, एतेषुक्रमेणैतावन्तएव सीमन्तकादयो वृत्ताकारा नरकेन्द्रकाः, तत्र सीमन्तकस्य पूर्वादिदिक्षु एकोनपञ्चाशप्रमाणा नरकावली दिदिक्षु चाष्टचत्वारिंशत्प्रमाणेति प्रतिप्रस्तटमुभयैकेकहान्या सप्तभ्यां दिक्ष्वेकैक एव विदिक्षु न सन्त्येवेति, उक्तंच॥१॥ “एगूणुवन्ननिरया सेढी सीमंतगस्स पुवेणं ।
उत्तरओ अवरेण य दाहिणओ चेव बोद्धव्वा ।। ॥२॥ अडयाली सं निरया सेढी सीमंगस्स बोद्धव्वा ।
पुव्वुत्तरेण नियमा एवं सेसासु विदिसासु ।। ॥३॥ एक्केको य दिसासुंमझे निरओ भवेऽपइट्टाणो।
विदिसानिरयविरहियं तं पयरं पंचणं जाण ॥" -सीमन्तकस्य च पूर्वादिषु दिक्षु सीमन्तकप्रभादयो नरका भवन्ति, तदुक्तम्
“सीमंतकप्पभो खलु निरओ सीमंगस्स पुब्वेण ।
सीमंतगमज्झिमओ उत्तरपासे मुणेयव्यो। ॥२॥ सीमंतावत्तो पुण निरओ सीमंतगस्स अवरेणं ।
सीमंतगावसिट्टो दाहिणपासे मुणेयव्यो ।" इति, ततः पूर्वादिषुचतसृषुदिक्षु सीमन्तकापेक्षया तृतीयादयः प्रत्येकमावलिकासु विलयादयो नरका भवन्तीति, एवं चैते लोलादयः षडप्यावलिकागतानांमध्ये अधीता विमाननरकेन्द्रकाख्ये ग्रन्थे, यतस्तत्रोक्तम्-"लोलेतह लोलुए चेव" इति, एतौ चावलिकायाः पर्यन्तिमौ तथा 'उद्दड्डे चेव निद्दद्दे'त्ति तौ सीमन्तकप्रभाविंशतितमैकविंशाविति, तथा 'जरए तह चेव पञ्जरए'त्ति पञ्चत्रिंशत्तमषट्त्रिंशत्तमौ, केवलं लोलो लोलुप इत्येवं शुद्धपदैः सर्वनरकाणां पूर्वालिकायामेवाभिलापः, उत्तरदिगाद्यावलिकासुपुनरेभिरेव सविशेषैर्नामभिर्नरका अभिलप्यन्ते,
तद्यथा-उत्तरायांलोलमध्यो लोलुपमध्य इत्यादि, एवं पश्चिमायां लोकावतॊ दक्षिणाया लोलावशिष्ट इत्यादि, उक्तंच॥१॥ “मन्झा उत्तरपासे आवत्ता अवरओ मुणेयव्वा ।
सिट्ठा दाहिणपासे पुब्विल्लाओ विभइयव्वा ।।" इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org