________________
स्थानं ६,
३९३
घुपविशन्पुमांस्तत्रस्थयोषित्पुष्पचन्दनवस्त्रादिस्पर्शबहु-भिन्नजातीयं सन्मतमेकैकं भेदेनावबुध्यते अयंयोषित्स्पर्श इत्यादि, बहुविहंति बह्वयो विधा-भेदायस्य स बहुविधस्तं, योषिदादिस्पर्शमकैकं शीतस्निग्धमृदुकठिनादिरूपमवगृह्णातीति, 'धुवंतिध्रुवमत्यन्तं सर्वदेत्यर्थः, यदा यदाअस्य तेन स्पर्शेन योषिदादिना योगोभवति तदा तदातमवच्छिनत्तीत्यर्थः, एतदुक्तंभवति-सतीन्द्रिये सति चोपयोगे यदाऽसौ विषयः स्पृष्टो भवति तदा तमवगृह्णात्येवेति, 'अनिस्सिय'ति निश्रितोलिङ्गप्रतिमोऽभिधीयते, यथायूथिकाकुसुमानामत्यन्तंशीतमृदुस्निग्धादिरूपः प्राक्स्पर्शोऽनुभूतः तेनानुमानेन-लिङ्गेन तं विषयमपरिच्छिन्दत् यदा ज्ञानं प्रवर्तते तदा अनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते, 'असंदिद्धं तिअसंदिग्धं-निश्चितंसकलसंशयादिदोषरहितमिति, यथा तमेव योषिदादिस्पर्शमवगृह्णह्वत् योषित एवायंचन्दनस्यैवायमित्येवमवगृह्णातीति ।
एवमीहापायधारणामतीनां षड्विधत्वं, नवरं धारणायां क्षिप्रधुवपदे परित्यज्य पुराणदुर्द्धरपदाभ्यां सह षड्विधत्वमुक्तं, तत्र च पुराणं-बहुकालीनं दुर्द्धर-गहनं चित्रादीनि, क्षिप्रबहुबहुविधादिपदषट्कविपर्ययेणापि षड्विधा अवग्रहादिमतिर्भवतीति मतिभेदानामथाविंशते दशभिर्गुणनात् त्रीणि शतानिषत्रिंशदधिकानि भवन्ति, अभाणि च भाष्यकारेण॥१॥"जं बहु १ बहुविह २ खिप्पा ३ अनिस्सिय ४ निच्छिय ५ धुवे ६ यर १२ विभिन्ना
पुणरोग्गहादओ तोतं छत्तीसत्तिसयभेदं । इति, ॥२॥ “नानासद्दसमूहं बहुं पिहंमुणइ भिन्नजाइयं १।
बहुविहमनेगभेदं एकेकं निध्धमहुरादि २॥ ॥३॥ खिप्पमचिरेण ३ तं चिय सरूवओजं अनिस्सियमलिंगं ४ ।
निच्छयमसंसयंजं ५ धुवमञ्चंतं न उ कयाइ ६ ॥ ॥४॥ एत्तो चिय पडिवक्खं साहेजा निस्सिए विसेसो वा ।
परधम्मेहि विमिस्सं निस्सियमविनिस्सियं इयरं ।।" इति इह भावना-अक्षिप्रं चिरेण निश्रितं लिङ्गात् अनिश्रितं सन्दिग्धं अध्रुवं कदाचित् अथवा निश्रितानिश्रितयोरयमपरोविशेषः-निश्रितंगृह्णाति गवादिकर्मथंसारङ्गादिधर्मविशिष्टमव-गृह्णाते अनिश्रितं गोधमैरेव विशिष्टं गृह्णाति, यदिह न स्पृष्टं तत्स्पष्टमेवेति ।
अनन्तरं मतिरुक्ता तद्विशेषवन्तश्च तपस्यन्तीति तपोऽभिधानाय सूत्रद्वयम्
भू. (५६)छविहे बाहिरतेतवे पं०तं०-अनसनंओमोदरिया भिक्खातरितारसपरिचाते कायकिलेसोपडिसंलीनता । छव्विधे अभंतरितेतवे पं० २०-पायच्छित्तं विणओवेयावचंतहेव सज्झाओ झाणं विउस्सग्गो।
वृ. 'छविहे'त्यादि गतार्थमेतत् तथापि किञ्चिदुच्यते, 'बाहिरए तवे'त्ति बाह्यमित्यासेव्यमानस्य लौकिकैरपि तपस्तया ज्ञायमानत्वात् प्रायो बहि": शरीरस्य तापकत्वाद्वा तपतिदुनोति शरीरकर्माणि यत्तत्तप इति, तत्रानशनं-अभोजनमाहारत्याग इत्यर्थः, तद् द्विधा-इत्वरं यावत्कथिकंच, तत्रेत्वरं चतुर्थादिषण्मासान्तमिदं तीर्थमाश्रित्येति , यावत्कथिकं त्वाजन्मभावि त्रिधा-पादपोपगमनेङ्गितमरणभक्तपरिज्ञाभेदादिति, एतच्च प्राग्व्याख्यातमिति १, ओमोयरियत्ति अवमं ऊनमुदरं-जठरंअवमोदरंतस्यकरणमवमोदरिकेति, साचद्रव्यत उपकरणभक्तपानविषया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org