SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३९४ प्रतीता, भावतस्तु क्रोधादित्याग इति २, । तथा भिक्षार्थं चर्या चरणमटनं भिक्षाचर्या सैव तपो निर्जराङ्गत्वादनशनवद् अथवा सामान्योपादानेऽपि विशिष्टा विचित्राभिग्रहयुक्तत्वेन वृत्तिसङ्क्षेपरूपा सा ग्राह्या, यत इहैव वक्ष्यति - 'छव्विहा गोयरचरिय'त्ति, न चेयं ततोऽत्यन्तभिन्नेति, भिक्षाचर्यायांचाभिग्रहा द्रव्यादिविषयतया चतुर्विधाः, तत्र द्रष्यतोऽ लेपकार्याद्येव द्रव्यं ग्रहीष्ये, क्षेत्रतः परग्रामगृहपश्ञ्चकादिलब्धं, कालतः पूर्वाह्नादी, भावतो गानादिप्रवृत्ताल्लब्धमिति ३, रसाः क्षीरादयस्तत्परित्यागो रस परित्यागः ४, कायक्लेशः- शरीरक्लेशनं स च वीरासनादिरनेकधा ५, प्रतिसंलीनता - गुप्तता, सा चेन्द्रियकषाययोगविषया वितिक्तशयनासनता वेति ६ । 'अब्मिंतर 'त्ति लौकिकैरनभिलक्ष्यत्वात् तन्त्रान्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरमिति, प्रायश्चित्तं उक्तनिर्वचनमालोचनादि दशविधमिति १, विनीयते कर्म येन स विनयः, उक्तं च 119 11 "जम्हा विनयइ कम्मं अट्ठविहं चाउरंतमोक्खाए । तम्हा उ वयंति विऊ विनयंति विलीनसंसारा ।" इति, स च ज्ञानादिभेदात् सप्तधा वक्ष्यते २ तथा व्यावृत्तभावो वैयावृत्त्यं धर्मसाधनार्थमन्नादिदानमित्यर्थः, आहच119 11 स्थानाङ्ग सूत्रम् ६/-/५६२ 11911 "वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपायणमे स भावत्थो ॥ १ ॥” इति, -तच्च दशधा "आयरिय उवज्झाए थेरतवस्सीगिलाणसेहाणं । साहंमियकुलगणसंघसंगयं तमिह कायव्वं " इति सुष्ठु आमर्यादया अध्यायः - अध्ययनं स्वाध्यायः, स च पञ्चधा-वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा चेति ४, ध्यातिद्धर्यानं एकाग्रचिन्तनिरोधस्तच्चतुर्द्धा प्राग् व्याख्यातं, तत्र धर्मशुक्ले एव तपसी निर्जरार्थत्वात् नेतरे बन्धहेतुत्वादिति ५, व्युत्सर्गः परित्यागः, स च द्विधा - द्रव्यतो भावतश्च तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादि विषय इति ६ । एते च तपःसूत्रे दशकालिकाद्विशेषतोऽवसेये इति । मू. (५६३) छव्विहे विवादे पं० तं०- ओसक्कतित्ता उत्सक्कइत्ता अनुलोमइत्ता पडिलोमतित्ता भइत्ता भेलतित्ता । वृ. अनन्तरोदितार्थेषु विवदते कश्चिदिति विवादस्वरूपमाह - 'छव्विहे 'त्यादि, षड्विधःषड्भेदो विप्रतिपन्नयोः क्वचिदर्थे वादोजल्पो विवादः प्रज्ञप्तः, तद्यथा- 'ओसक्कइत्त' त्ति अवष्वष्क्यअपसृत्यावसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, कुवचिच्च ‘ओसक्कावइत्त’त्ति पाठस्तत्र प्रतिपन्थिनं केनापि व्याजेनापसर्प्य अपसृतं कृत्वा पुनरवसरमवाप्य विवदते, 'ओसक्कइत्त' त्ति उत्ष्वष्क्य उत्सृत्य लब्धावसरतयोत्सुकीभूय 'उस्सक्कावइत्त' त्ति पाठान्तरे परमुत्सुकीकृत्य लब्धावसरो जयार्थी विवदते, तथा 'अनुलोमइत्त’त्ति विवादाध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा प्रतिपन्थिनमेव वा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy