________________
स्थान-६,.
३८९
मू. (५४८) आतंके उक्सग्गे तितिक्खणे बंभचेरगुत्तीते।
पाणिदयातवहेउं सरीरवुच्छेयणट्ठाए। वृ. आतङ्के-ज्वरादावुपसर्गे-राजस्वजनादिजनिते प्रतिकूलानुकूलस्वभावे तितिक्षणेअधिसहने कस्याः ?-ब्रह्मचर्यगुप्तेः-मैथुनव्रतसंरक्षणस्य, आहारत्यागिनो हि ब्रह्मचर्य सुरक्षितं स्यादिति, प्राणिदया च-संपातिमत्रसादिसंरक्षणं तपः-चतुर्थादि षण्मासान्तं प्राणिदयातपस्तच्च तद्धेतुश्च प्राणिदयातपोहेतुस्तस्मात् प्राणिदयातपोहेतोर्दयादिनिमित्तमित्यर्थः, तथा शरीरव्यवच्छेदार्थ-देहत्यागाय आहारं व्यवच्छिन्दन्नातिकामत्याज्ञामिति प्रक्रमः, इह गाथे॥१॥ “आयंको जरमाई राया सन्नायगा य उवसग्गे।
बंभवयपालणहा पाणिदया वासमहियाई॥ ॥२॥ "तवहेउ चतुत्थाई जाव यछम्मासिओ तवो होइ ।
छटुं सरीरवोच्छेयणट्ठया होअणाहारो॥" अनन्तरं श्रमणस्याहाराग्रहणकारणान्यभिहितानीति श्रमणादेर्जीवस्यानुचितकारिण उन्मादस्थानान्याह
मू. (५४९) छहिं ठाणेहिं आया उम्मायं पाउणेज्जा, तं०-अरहंताणमवन्नं वदमाणे १ अरहंतपनत्तस्स धम्मस्स अवन्नं वदमाणे २ आयरियउवज्झायाणमन्नं वदमाणे ३ चाउव्वनस्स संघस्स अवन्नं वदमाणे ४ जक्खावेसेण चेव ५ मोहणिजस्स चेव कम्मस्स उदएणं६।
वृ. 'छही'त्यादि इदं च सूत्रं पञ्चस्थानक एव व्याख्यातप्रायं, नवरं षड्भिः स्थानरात्माजीवः उन्माद-उन्मत्ततांप्राप्नुयात्, उन्मादश्चमहामिथ्यात्वलक्षणस्तीर्थकरादीनामवर्णं वदतो भवत्येव तीर्थकराद्यवर्णवदनकुपितप्रवचनदेवतातो वा असौ ग्रहणरूपो भवेदिति, पाठान्तरेण 'उम्मायपमाय'न्ति उन्मादः-सग्रहत्वं स एव प्रमादः-प्रमत्तत्वं आभोगशून्यतोन्मादप्रमादः, अथवोन्मादश्चप्रमादश्च-अहितप्रवृत्तिहिताप्रवृत्ती उन्मादप्रमादं प्राप्नुयादिति, 'अवनति अवर्णं अश्लाघावमवज्ञां वा वदन व्रजन् वा-कुर्वन्नित्यर्थः। ____ 'धम्मस्स'त्ति श्रुतस्य चारित्रस्य वा, आचार्योपाध्यायानांच, चतुर्वर्णस्य-श्रमणादिभेदेन चतुष्प्रकारस्य, यक्षावेशेन चैव-निमित्तान्तरकुपितदेवाधिष्ठतत्वेन, मोहनीयस्य-मिथ्यात्ववेदशोकादेरुदयेनेति । उन्मादसहचरः प्रमाद इति तमाह
मू. (५५०) छबिहे पमाते पं० तं०-मजपमाए निद्दपमाते विसयपमाते कसायपमाते जूतपमाते पडिलेहणापमाते।
वृ.'छब्विहे त्यादि, षड्विधः-षट्प्रकारःप्रमदनं प्रमादः-प्रमत्तता सदुपयोगाभाव इत्यर्थंः, प्रज्ञप्तः, तद्यथा-मद्य-सुरादि तदेव प्रमादकारणत्वात् प्रमादो मद्यप्रमादो, यत आह॥१॥ "चितभ्रान्तिर्जायते मद्यपानाच्चित्ते भ्रान्ते पापचर्यामुपैति ।
पापं कृत्वा दुर्गतिं यान्ति मूढास्तस्मान्मधं नैव देयं न पेयम् ।।"
___ -इति, एवं सर्वत्र, नवरं निद्रा प्रतीता तद्दोषश्चायं-- ॥२॥ “निद्राशीलो न श्रुतं नापि वित्तं, लब्धुं शक्तो हीयते चैष ताभ्याम् । ज्ञानद्रव्याभावतो दुःखभागी, लोकद्वैते स्यादतो निद्रयाऽलम् ॥"
-इति, विषयाः-शब्दादयस्तेषां चैवं प्रमादता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org