________________
३८८
स्थानाङ्ग सूत्रम् ६/-/५४४
एवं षट्विक्ता यथासम्भवं वृद्धयादिष्वप्यूह्येति, तथा वृद्धिः शरीरस्य निवृद्धिः- हानिस्तस्यैव विकुर्वणा - वैक्रियकरणं गतिपर्यायो - गमनभात्रं न परलोकगमनरूपः तस्य गत्यागतिग्रहणेन गृहीतत्वादिति, समुद्घातो - वेदनादिकः सप्तविधः कालसंयोगः समयक्षेत्रमध्ये आदित्यादिप्रकाशसम्बन्धलक्षणः,
‘दर्शनं' सामान्यग्राही बोधः, तच्चेह गुणप्रत्ययावध्यादि प्रत्यक्षरूपं तेनाभिग- मो- वस्तुनः परिच्छेदस्तत्प्राप्तिर्वा दर्शनाभिगमः, एवं ज्ञानाभिगमोऽपि जीवाभिगमः - सत्त्वाधिगमो गुणप्रत्ययावध्यादिप्रत्यक्षतः, अजीवाभिगमः- पुद्गलास्तिकायाद्यधिगमः, सोऽपि तथैवेति, 'एवं' मिति यथा 'छहिं दिसाहिं जीवाणं गई पवई' त्यादिसूत्राण्युक्तानि एवं चतुर्विंशतिदण्डकचिन्तायां 'पंचेंदियतिरिक्खजोणियाणं छहिं दिसाहिं गई' त्यादीन्यपि वाच्यानि, तथा मनुष्यसूत्राण्यपि, शेषेषु नारकादिपदेषु षट्सु दिक्षु गत्यादीनां सामस्त्येनासम्भवः, तथाहिनारकादीनां द्वाविंशतेर्जीवविशेषाणां नारकदेवेषूत्पादाभावादूर्ध्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्ययाधिलक्षणप्रत्यक्षरूपा न सभवन्त्येव तेषां भवप्रत्ययाधिपक्षे तु नारज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयो वैमानिकास्त्वधोऽवधयः शेषा निरवधय एवेति भावना, 'विवक्षाप्रधानि च प्रायोऽन्यत्रापि सूत्राणि 'ति अनन्तरसूत्रे मनुष्याणामजीवाधिगम उक्त इति मनु ष्यप्रत्यासत्त्या संयतमनुष्याणामाहारग्रहणाग्रहणकारणानि सूत्रद्वयेनाह
मू. (५४५) छहिं ठाणेहिं समणे निग्गंधे आहारमाहारमाणे नातिक्कमति, (तं०) - वृ. 'छही' त्यादि कण्ठ्यं नवरमाहारं अशनादिकमाहारयन्- अभ्यवहरन्नातिकामत्याज्ञा, पुष्टकारणत्वाद्, अन्यथा त्वतिक्रामत्येव, रागादिभावात्, तद्यथावेयणवेयावच्चे इरियट्ठाए य संजमट्ठाए।
यू. (५४६)
7
तह पाणवत्तियाए छटुं पुण धम्मचिंताए ।
बृ. 'वेयण' गाहा, वेदना च क्षुद्वेदना वैयावृत्त्यं च आचार्यदिकृत्यकरणं वेदनावैयावृत्त्यं तत्र विषये भुञ्जीत, वेदनोपशमनार्थं वैयावृत्त्यकरणार्थं चेति भावः, ईर्या-गमनं तस्या विशुद्धिर्युगमात्र निहितष्टित्वामीर्याविशुद्धिस्तस्यै इदमीर्याविशुध्ध्यर्थं, इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तं, बुभुक्षितो हीर्याशुद्धावशक्तः स्यादिति तदर्थमिति, चः समुच्चये, संयम :प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणः तदर्थं, 'तथे' ति कारणान्तरसमुच्चये, प्राणाः- उच्छ्वासादयो बलं वा प्राणस्तेषां तस्य वा वृत्तिः पालनं तदर्थं प्राणसंधारणार्थमित्यर्थः षष्ठं पुनः कारणं धर्मचिन्तायै गुणनानुप्रेक्षार्थमित्यर्थः इत्येतानि षट्कारणानीति, अत्र भाष्यगाथे
1198
"नत्थि छुहाए सरिसा वियणा भुंजिज्ज तप्पसमणट्ठा । छाओ वेयावच्चं न तरइ काउं अओ भुंजो ॥
इरियं न य सोहेइ जहोवइडुं च संजमं काउं । थामो वा परिहायइ गुणणुप्पेहासु य असत्तो ।।" त्ति,
मू. (५४७) छहिं ठाणेहिं समणे निग्गंथे आहारं वोच्छिंदमाणे नातिक्कमति, (तं०) -
घृ. 'वोच्छिदमाणे' त्ति परित्यजन् ।
॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org