________________
स्थानं ६,
·
३८७
तपः-अनशना दि लाभोऽन्नादीनां पूजा-स्तवादिरूपा तत्पूर्वकः सत्कारो - वस्त्रभ्यर्चनं पूजायां वा आदरः पूजासत्कार इति ।
·
मू. (५४०) छव्विहा जाइआरिया मणुस्सा पं० (तं०) -
वृ. जातिः - मातृकः पक्षः तया आर्याः अपापा निर्दोषा जात्यार्याः विशुद्धमातृका इत्यर्थः, यू. (५४१) अंबट्ठा य कलंदा य, वेदेहा वेदिगातिता । हरिता चुंचुणा चेव, छप्पेता इब्भजातिओ ॥
वृ. अंबट्ठेत्याद्यनुष्टुप्प्रतिकृतिः, षडप्येता इभ्यजातय इति, इभमर्हन्तीतीभ्याः, यद्द्रव्यस्तूपान्तरित उच्छ्रितकदलिकादण्डो हस्ती न दृश्यते ते इभ्या इति श्रुतिः, तेषां जातय इभ्यजातयस्ता एता इति
मू. (५४२) छव्विधा कुलारिता मणुस्सा पं० तं० उग्गा भोगा राइन्ना इक्खागा नाता कोरव्या ।
वृ. कुलं पैतृकः पक्षः, उग्रा आदिराजेनारक्षकत्वेन ये व्यवस्थापितास्तद्वंश्याश्च, ये तु गुरुत्वेन ते भोगास्तद्वंश्याश्च ये तु वयस्यतयाऽऽचरितास्ते राजन्यास्तद्वंश्याश्च इक्ष्वाक्वः प्रथमप्रजापतिवंशजाः ज्ञाताः कुरवश्च महावीरशान्तिजिनपूर्वजाः, अथवैते लोकरूढितो ज्ञेयाः ।
मू. (५४३) छव्विधा लोगट्ठिती पं० तं०-आगासपतिठिते वाए वायपतिट्ठिए उदही उदधिपतिट्ठिता पुढवी पुढविपइट्टिया तसा थावरा पाणा अजीवा जीवपइडिया जीवा कम्मपतिट्टिया वृ. इयं च जातिकुलार्यादिका लोकस्थितिरिति लोकस्थितिप्रत्यासत्त्या तामेवाह'छव्विहे 'त्यादि, इदं पूर्वमेव व्याख्यातं, नवरमजीवा - औदारिकादिपुद्लास्ते जीवेषु प्रतिष्ठिताःआश्रिताः, इदं चानवधारणं बोद्धव्यं, जीवविरहेणापि बहुतराणामजीवानामवस्थानात् पृथिवीविरहतोऽपि त्रसस्थावरवदिति, तथा जीवाः कर्म्मसु ज्ञानावरणादिषु प्रतिष्ठिताः, प्रायस्तद्विरहितानां तेषामभावादिति ॥ अनन्तरं कर्म्मप्रतिष्ठिता जीवा उक्ताः, तेषां च दिश्चेव गत्यादयो भवन्तीति दिशस्तासु गत्यादींश्च प्ररूपयन्नाह
मू. (५४४) छद्दिसाओ पं० तं०-पातीणा पडीणा दाहिणा उतीणा उड्ढा अधा, छहिं दिसाहिं जीवाणं गती पवत्तती, तं०-पाणाते जाव अधाते १ एवमागई २ वक्कंती ३ आहारे ४ वुड्डी ५ निवुड्डी ६ विगुव्वणा ७ गतिपरिताते ८ समुग्धाते ९ कालसंजोगे १० दंसणाभिगमे ११ नणाभिगमे १२ जीवाभिगमे १३ अजीवाभिगमे १४, एवं पंचिंदियतिरिक्खजोणियाणवि मणुस्साणवि ।
वृ. 'छद्दिसाओ' इत्यादि सूत्रकदम्बकं, इदं च त्रिस्थानक एव व्याख्यातं, तथापि किञ्चिदुच्यतेप्राचीना- पूर्वा प्रतीचीना पश्चिमा दक्षिणा-प्रतीता उदीचीना उत्तरा ऊर्द्धमधश्चेति प्रतीते, विदिशो न दिशो विदिक्तवादेवेति षडेवोक्ताः, अथवा एभिरेव जीवानां वक्ष्यमाणा गतिप्रभृतयः पदार्थाः प्रायः प्रवर्त्तन्ते, षट्स्थानकानुरोधेन वा विदिशो न विवक्षिता इति षडेव दिश उक्ता इति ।
षड्भिर्दिग्भिर्जीवानां गतिः-उत्पत्तिस्थानगमनं प्रवर्त्तते, अनुश्रेणिगमनात्तेषामित्येवमेतानि चतुर्दश सूत्राणि नेयानि, नवरं गतिरागतिश्च प्रज्ञापकस्थानपेक्षिण्यौ प्रसिद्धे एव, व्युत्क्रान्तिः उत्पत्तिस्थानप्राप्तस्योत्पादः, साऽपि ऋजुगतौ षट्स्वेव दिक्षु, तथा आहारः प्रतीतः सोऽपि षट्स्वेव दिक्षु, एतदव्यवस्थितप्रदेशावगाढपुद्गलानामेव जीवेन स्पर्शनात् स्पृष्टानामेव चाहरणादिति,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International