________________
३८०
स्थानाङ्ग सूत्रम् ५/३/५१७
मू. (५१७) जीवाणं पंचट्ठाणनिवित्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तं० - एगिदितनिव्वत्तिते जाव पंचिंदितनिव्वत्तिते, एवं - 'चिण उवचिण बंध उदीर वेद तह निजरा चेव|पंचपतेसिता खंधा अनंता पन्नत्ता पंचपतेसोगाढा पोग्गला अनंता पन्नता जाव पंचगुणलुक्खा पोग्गला अनंता पन्नता।
वृ. पुद्गलाश्च विविधपरिणामा इति पुद्गलसूत्राणीति, व्याख्या च प्राग्वदध्ययनसमाप्ति यावत्सुकरैवेति,॥
स्थानं - ५ - उद्देशकः-३ समाप्तः
स्थानं-५-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरचिता स्थानाङ्गसूत्रे पञ्चमस्थानस्य टीका परिसमाप्ता।
(स्थान-६) वृ.व्याख्यातंपञ्चममध्ययनमधुनासङ्ख्याक्रमसम्बध्धमेवषट्स्थानकाख्यंषष्ठमारभ्यते, अस्य चायं विशेषसम्बन्धः-इहानन्तराध्ययने जीवादिपर्यायप्ररूपणा कृता इहापि सैव क्रियते इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम् -
मू. (५१८) छहिं ठाणेहिं संपन्ने अनगारे अरिहति गणं धारित्तते, तं०-सड्डी पुरिसजाते १ सच्चे पुरिसजाते २ मेहावी पुरिसजाते ३ बहुस्सुते पुरिसजाते ४ सत्तिमं ५ अप्पाधिकरणे ६ ।
वृ.अस्य चायमभिसम्बन्धः, पूर्वसूत्रे ‘पञ्चगुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ता' इत्युक्तं, प्रज्ञापकाश्चैषामर्थतोऽर्हन्तः सूत्रतो गणधराः, गणधराश्चयैर्गुणैर्युक्तस्यानगारस्य गणधरणार्हत्वं भवतितधुक्ताएवेतितेषांगुणानामुपदर्शनायेदमुक्तमित्येवंसम्बन्धस्यास्यव्याख्या, संहितादिचर्चस्तु प्रतीत एवेति, नवरं षड्भिः स्थानैः-गुणविशेषैः 'सम्पन्नो' युक्तोऽनगारो-भिक्षुः 'अर्हति' योग्यो भवति 'गणं' गच्छंधारयितुंमर्यादायामिति गम्यते, पालयितुं वेत्यर्थः ।
'सद्धि'त्ति श्रद्धावान्, अश्रद्धावतो हि स्वयममर्यादावार्तितया परेषां मर्यादास्थापनायामसमर्थत्वाद् गणधारणानहत्वं, एवं सर्वत्र भावना कार्या, 'पुरुषजातं' पुरुषप्रकारः, इह च षड्भिः स्थानैरित्युक्त्वापि यदुक्तं श्राद्धं पुरुषजातमिति तद्धर्मधर्मवतोरभेदाद् अन्यथा श्राद्धत्वं सत्यत्वमित्यादि वक्तव्यं स्यादिति १, तथा 'सत्यं द्भ्यो-जीवेभ्यो हिततया प्रतिज्ञातशूरतया वा, एवंभूतो हि पुरुषो गणपालक आदेयश्च स्यादिति २, तथा 'मेधावि मर्यादया घावतीत्येवंशीलमिति निरुक्तिवशात्, एवंभूतो हि गणस्य मर्यादाप्रवर्तको भवति, अथवा मेधाश्रुतग्रहणशक्तिस्तद्वत्, एवंभूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति ३ तथा बहु-प्रभूतं श्रुतं-सूत्रार्थरूपं यस्य तत्तथा, अन्यथा हि गणानुपकारी स्यात्, उक्तंच॥१॥ “सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं ।
__ अहियाहियसंपत्तिं संसारुच्छेयणं परमं?" ॥२॥ तथा "कह सो जयउ अगीओ कह वा कुणउ अगीयनिस्साए।
कह वा करेउ गच्छंसबालवुड्डाउलं सो उ।।" इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org