________________
३७८
स्थानाङ्गसूत्रम् ५/३/५०९ इह तु पञ्चस्थानकानुरोधानेदमुक्तं, श्रद्धानशुद्धेन वासगृहीतत्वात्, ज्ञानविशेषत्वात् श्रद्धानस्येति । प्रत्याख्याने च कृते कदाचिदतिचारः सम्भवति, तत्र च प्रतिक्रमणं कर्तव्यमिति प्रतिक्रमणं निरूपयन्नाह -
मू. (५१०) पंचविहे पडिक्कमणे पं० तं०-आसवदारपडिक्कमणे मिच्छत्तपडिक्कमणे कसायपडिक्कमणे जोगपडिक्कमणे भावपडिक्कमणे ।
वृ. “पंचविहे' इत्यादि, प्रतीपंक्रमणप्रतिक्रमणं, एतदुक्तं भवति-शुभयोगेभ्योऽशुभयोगानुपक्रान्तस्य शुभेष्वेव गमनमिति, उक्तं च॥१॥ "स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशाद्गतः।
तत्रैवक्रमणं भूयः, प्रतिक्रमणमुच्यते॥ ॥२॥ क्षायोपशमिकाभावादीदयिकस्य वशं गतः ।
तत्रापिच स एवार्थः, प्रतिकूलगमात् स्मृतः ।।" इति, इदंच विषयभेदात्पञ्चधेति, तत्रआश्रवद्वाराणि-प्राणातिपातादीनितेभ्यःप्रतिक्रमणंनिवर्त्तनं पुनरकरणमित्यर्थः आश्रवद्वारप्रतिक्रमणं, असंयमप्रतिक्रमणमिति हृदयं, मिथ्यात्वप्रतिक्रमणं यदाभोगानाभोगसहसाकारैर्मिथ्यात्वगमनं तन्निवृत्तिः, एवं कषायप्रतिक्रमणं, योगप्रतिक्रमणं तु यत् मनोवचनकाय्यापाराणामशोभनानां व्यावर्तनमिति, आश्रवद्वारादिप्रतिक्रमणमेवा- विवक्षितविशेषंभावप्रतिक्रमणमिति, आह च
“मिच्छत्ताइ न गच्छइ न य गच्छावेइ नानुजाणाइ । जमणवइकाएहितं भणियं भावपडिकमणं ॥" इति,
-विशेषविवक्षायां तूक्ता एव चत्वारो भेदाः, यदाह॥१॥ "मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं ।
कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥" इति, भावप्रतिक्रमणं च श्रुतभावितमतेरेव भवतीति श्रुतं वाचनीयं शिक्षणीयं चेत्येतद्द्वयोपदर्शनार्थ सूत्रे
मू. (५११) पंचहिं ठाणेहिं सुत्तं वाएजा, तं०- संगहट्ठयातेउवग्गहणट्ठयाते निजरणट्ठयाते सुत्तेवामे पञवयातेभविस्सति सुत्तस्सवाअवोच्छित्तिणयट्टयाते।पंचहिं ठाणेहिं सुत्तं सिक्खिज्जा, तं०-नाणट्ठयाते दंसणट्टयाते चरित्तट्ठयाते वुग्गहविमोतणट्टयाते अहत्येवाभावेजाणिस्सामीतिकट्ट
वृ. 'पंचही'त्यादि सुगम, नवरं सुत्तं श्रुतं सूत्रमात्रं वा वाचयेत्' पाठयेत्, तत्र सङ्ग्राहःशिष्याणां श्रुतोपादानं स एवार्थः-प्रयोजनंतस्मै सङ्ग्रहार्थाय सङ्ग्रह एव वाऽर्थो यस्यस सङ्ग्रहार्धस्तद्भावस्तत्ता तया सङ्ग्रहार्थतया श्रुतसङ्ग्रहो भवत्वेषामिति प्रयोजनेनेति भावः अथवैत एव मया सङ्ग्र हीता भवन्ति - शिष्यीकृता भवन्तीति सङ्ग्रहार्थतया, तत्सङ्ग्रहायेति भावः, एवमुप-ग्रहार्थयोपग्रहार्थातया वा, एवंह्येतेभक्तपानवस्त्राधुत्पादनसमर्थतयोपष्टम्भिता भवन्त्विति भावः, निर्जरार्थाय-निर्जरणमेवं मे कर्मणां भवविति, श्रुतं वा-ग्रन्थो मे मेवाचयत इति गम्यते 'पर्यवजातं' जातविशेषं स्फुटतया भविष्यतीति, अव्यवच्छित्त्या नयनं श्रुतस्य कालान्तरप्रापणं अव्यवच्छित्तिनयः एवार्थस्तस्मै इति।
मिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org