________________
स्थानं-५, - उद्देशकः -३
३७७ मू. (५०७) पंचविहे नाणावरणिजे कम्मे पं० तं०-आभिनिबोहियनाणावरणिजे जाव केवलनाणावरणिजे।
वृ. उक्तस्वरूपस्य ज्ञानस्य यदावरकं कर्म तत्स्वरूपाभिधानाय सूत्र-पंचे'त्यादि सुगम, उक्तं ज्ञानावरणमिति तत्क्षपणोपायविशेषस्य स्वाध्यायस्य भेदानाह
मू. (५०८) पंचविहे सज्झाए पं०-वायणा पुच्छणा परियट्टणा अनुप्पेहा धम्मकहा।
वृ. 'पंचविहे' इत्यादि सुगम, नवरं शोभनंआ-मर्यादयाअध्ययन-श्रुतस्याधिकमनुसरणं स्वाध्यायः, तत्र वक्ति शिष्यस्तंप्रतिगुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाद्युत्पत्तौ पुनः प्रष्टव्यमितिपूर्वाधीतस्यसूत्रादेः शङ्कितादौ प्रश्नः प्रच्छनेति, प्रच्छनाविशोधितस्य सूत्रस्यमाभूद्विस्मरणमिति परिवर्तना, सूत्रस्यगुणनमित्यर्थः, सूत्रवदर्थेऽपिसम्भवतिविस्मरणमतः सोऽपिपरिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्तनिकेत्यर्थः, एवमभम्यस्तश्रुतेन धर्मकथा विधेयेति धर्मस्य-श्रुतरूपस्यकथा-व्याख्या धर्मकथेति।धर्मकथामन्थनिर्मथितमिथ्याभावाश्च भव्याः शुद्धं प्रत्याख्यानं प्रपद्यन्त इति तदाह
मू. (५०९) पंचविहे पच्चक्खाणे पं० २०-सद्दहणसुद्धे विनयसुद्धे अनुभासणासुद्धे अनुपालणासुद्धे भावसुद्धे।
वृ. 'पंचविहे' इत्यादि, प्रति-प्रतिषेधत आख्यान-मर्यादया कथन-प्रतिज्ञानं प्रत्याख्यानं, तत्र श्रद्धानेन-तथेतिप्रत्ययलक्षणेन शुद्ध-निरवयं श्रद्धानशुद्धं, श्रद्धानाभावे हि तदशुद्धं भवति, एवं सर्वत्र, इह नियुक्तिगाथा॥१॥ “पञ्चक्खाणं सव्वन्नुदेसियं जंजहिं जया काले ।
तंजो सद्दहइ नरोतंजाणसुसद्दहणसुद्धं"
विनयशुद्धं यथा॥२॥ "किइकम्भस्स विसोहिं पउंजए जो अहीनमइरित्तं।
मणवयणकायगुत्तोतंजाणसु विनयओ सुद्धं"
___ -अनुभाषणाशुद्धं यथा॥३॥ “अनुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं ।
पंजलिउडो अभिमुहो तंजाननुभासणासुद्धं ॥" -नवरं गुरुर्भणति-वोसिरिति, शिष्यस्तु वोसिरामित्ति, अनुपालनाशुद्धं यथा॥१॥ "कंतारे दुभिक्खे आयंके वा महया समुप्पन्ने ।
जं पालियं न भग्गं तंजाणऽनुपालणासुद्धं ॥"
' -भावशुद्धं, यथा॥१॥ “रागेण व दोसेण व परिणामेण व न दूसियं जंतु।
तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयव्यं ।।" इति,
--अन्यदपि षष्ठं ज्ञानशुद्धमिति निर्युक्तावुक्तं, यदाह - ॥१॥ “पञ्चक्खाणं जाणइ कप्पे जंजमि होइ कायव्यं ।
मूलगुणउत्तरगुणे तं जाणमुजाणणासुद्धं ।ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org