________________
३७६
स्थानाङ्गसूत्रम् ५/३/५०६
केवलं-असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा आवरणमलकलङ्करहितत्वात् सकलं वा तप्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वा अनन्यसध्शत्वात् अनन्तं वा ज्ञेयानन्तत्वात् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना तच्च तत् ज्ञानं चेति केवलज्ञानं, उक्तंच॥१॥ "केवलमेगंसुद्धं सगलमसाहारणं अनंतं च ।
पायं च नाणसद्दो नाणसमाणाहिगरणोऽयं " इति, प्राय इति मनःपर्यायज्ञाने तत्पुरुषस्यापि दर्शितत्वात् । इह च स्वामिकालकारणविषयपरोक्षत्वासाधयत्तिभावेचशेषज्ञानसद्मावादादावेवमतिज्ञानश्रुतज्ञानयोरुपन्यासइति, तथाहिय एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, “जत्थ मतिनाणं तत्थ सुयनाणं" इति वचनात्, तथा यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतादिः सर्व एव, अप्रतिपतितैकजीवापेक्षयातुषट्षष्टिसागरोपमाण्यधिकानीति, तथायथामतिज्ञानंक्षयोपशमहेतुकं तथा श्रुतज्ञानमपि यथाच मतिज्ञानमोघतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि यथा च मतिज्ञानं परोक्ष एवं श्रुतज्ञानमपि तथा मतिज्ञानश्रुतज्ञानभावे चावध्यादिभावादिति, आह च॥१॥ "जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई।
तब्भावे सेसाई तेणाईए मइसुयाई" इति मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादी मतेरुपन्यास इति, उक्तं च॥१॥ “मइपुव्वं जेण सुयं तेणाईए मई विसिट्टो वा ।
मइभेओ चेव सुयं तो मइसमनंतरं भणियं " इति तथा कालविपर्ययस्वाभिलाभसाधान्मतिज्ञानश्रुतज्ञानान्तरमवधिज्ञानस्योपन्यासः, तथाहि-यावानेवमतिज्ञानश्रुतज्ञानयोः स्थितिकालःप्रवाहापेक्षयाअप्रतिपतितैकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि, तथा यथैव मतिज्ञानश्रुतज्ञानयोर्विपर्यज्ञाने भवतः एवमिदमपि मिथ्याटेर्विभङ्गज्ञानभवतीति, तथायएवतयोः स्वामी स एवास्यापि भवतीति, तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भव इति, उक्तंच
-“कालविवज्जयसामित्तलाभसाहम्मओऽवही तत्तो।" तथा छद्मस्थविषयभावाध्यक्षत्वसाधादवधिज्ञानान्तरं मनःपर्यवज्ञानस्योपन्यासः, तथाहि-यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मनःपर्यायज्ञान मपि, तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयमेवमेतदपितथायथाऽवधिज्ञानंक्षायोपशमिकेभावेतथेदमपि, तथा यथाऽवधिज्ञानं प्रत्यक्षं तथेदमपीति, उक्तं च- "माणसमेत्तो छउमत्थविसयभावादिसामन्ना" इति
तथा मनःपर्यायज्ञानान्तरं केवलज्ञानोपन्यासः तस्य सकलज्ञानोत्तमत्वात् तथा अप्ररमत्तयतिस्वामिसाधर्म्यात्, तथाहि-यथा मनःपर्यायज्ञानमुत्तमयतेरेव भवति एवमिदमपि, तथा अवसानलाभात्, यो हि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमाप्नोतीति, तथा विपर्ययाभावसाधात्, तथाहि-यथा मनःपर्यायज्ञानं सविपर्ययं न भवत्येवं केवलमपीति, उक्तंच. ॥१॥ अंते केवलमुत्तमजइसामित्तावसाणलाभाओ।
एत्थं धमतिसुयाई परोक्खमियरं च पचखं ।।" इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org