SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६८ स्थानाङ्ग सूत्रम् ५/३/४८७ युक्तियुक्तत्वात् इति १, तथाअभिःशीचमपशौचंप्रक्षालनमित्यर्थः २,तेजसाऽग्निनातद्विकारेण वा भस्मना शौचं तेजःशौचं ३, एवं मंत्रशौचं शुचिविद्यया ४ ब्रह्म ब्रह्मचर्यादिकुशलानुष्ठानं तदेव शौचं ब्रह्मशौचं ५, अनेन च सत्यादिशौचं चतुर्विधमपि सङ्ग्रहीतं, तच्चेदम्॥१॥ "सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचञ्च पञ्चमम" - इति, लौकिकैः पुनरिदं सप्तधोक्तम्- यहाह॥१॥ “सप्त स्नानानि प्रोक्तानि स्वयमेव स्वयंभुवा । द्रव्यभावविशुध्ध्यर्थमृषीणां ब्रह्मचारिणाम् ॥२॥ आग्नेयं वारुणं ब्राहम्यं, वायव्यं दिव्यमेव च। पार्थिवं मानसं चैव, स्नानं सप्तविधं स्मृतम् ॥३॥ आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणं । आपोहिष्ठामयं ब्राहम्यं, वायव्यं तु गवां रजः ॥४॥ ___ सूर्यदृष्टं तु यदृष्टं, तद्दिव्यमृषयो विदुः। पार्थिवं तु मृदा स्नानं, मनःशुद्धिस्तु मानसम्" इति । अनन्तरं ब्रह्मशौचमुक्तं, तच्च जीवशुद्धिरूपं, जीवं च छद्मस्थो न जानाति केवली तु जानातीति सम्बन्धाच्छद्मस्थकेवलिनोरज्ञेयज्ञेयवस्तुप्रतिपादनाय सूत्रद्वयमाह मू. (४८८) पंच ठाणाइं छउमत्थे सव्वभावेणं न जाणति न पासति, तं०-धम्मस्थिकार्य अधम्मत्थिकार्य आगासस्थिकायं जीवं असरीरपडिबद्धं परमाणुपोग्गलं, एयाणि चैव उप्पन्ननाणदंसणधरे आरहा जिणे केवली सव्वभावणंजाणति पासतिधम्मत्थिकायंजावपरमाणुपोग्गलं वृ. 'छउमत्थे त्यादि सुगम, नवरं छद्मस्थ इहावध्याघतिशयविकलो गृह्यते, अन्यथा अमूर्त्तत्वेनधर्मास्तिकायादीन्अजाननपि परमाणुंजानात्येवासौमूर्तत्वात्तस्य, अथ सर्वभावेनेत्युक्तं ततश्च तं कथञ्चिजानन्नप्यनन्तपर्यायतया न जानातीति, एवं तर्हि सङ्खयानियमो व्यर्थः स्यात्, घटादीनां सुबहूनामनामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वादिति, 'सव्वभावेणं ति च साक्षात्कारेण, श्रुतज्ञानेन त्वसाक्षात्कारेणजानात्येव, जीवमशरीरप्रतिबद्धं-देहमुक्तं, परमाणुश्चासौ पुद्गलश्चेति विग्रहः, व्यणुकादीनामुपलक्षणमिदं ।। यथैतान्यतीन्द्रियाणि जिनः पञ्च जानाति तथाऽन्यदप्यतीन्द्रियं जानातीत्यधोलोकोद्धलोकवय॑तीन्द्रियं पञ्चस्थानकावतारि दर्शयन् सूत्रद्वयमाह मू.(४८९)अधोलोगेणंपंच अनुत्तरामहतिमहालता महानिरयापं०२०-कालेमहाकाले रोरुते महारोरुते अप्पतिहाणे १ ।उद्दलोगेणं पंच अनुत्तरा महतिमहालता महाविमाणा पं० तं०विजये विजयंते जयंते अपराजिते सव्वट्ठसिद्धे २। वृ. 'अहो' इत्यादि व्यक्तं, नवरं 'अहोलोए'त्ति सप्तमपृथिव्यां अनुत्तराः-सर्वोत्कृष्टा उत्कृष्टवेदनादित्वात्ततः परं नरकाभावाद्वा, महत्त्वं च चतुर्णा क्षेत्रतोऽप्यसङ्ख्यातयोजनवादप्रतिष्ठानस्य तु योजनलक्षप्रमाणत्वेऽप्यायुषोऽतिमहत्त्वान्महत्त्वमिति, एवमूर्ध्वलोकेऽपि । कालादिषु विजयादिषु च सत्त्वाधिकपुरुषा एव गच्छन्तीति तत्प्रतिपादनायाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy