SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ स्थानं-५, - उद्देशकः-३ ॥२॥ तथा “जो देइ उवस्सयंजइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्नपाणसयणासणविगप्पा" इति -तथा शरीरं-कायः, अस्य च धर्मोपग्राहिता स्फुटैव, यतोऽवावि-- ॥१॥ "शरीरं धर्मसंयुक्तं,रक्षणीयं प्रयत्नतः। शरीराच्छ्रवते धर्मः, पर्वतात् सलिलं यथा" इति, (भवति चात्रार्या-) ॥२॥ “धर्माचरतः साधोर्लोके निश्रापदानि पञ्चैव । राजा गृहपतिरपरः षट्काया गणशरीरे च" इति, शेषं सुगमं। श्रमणस्य निश्रास्थानन्युक्तानि, अथ लौकिकं निधिलक्षणंनिश्रास्थानं पञ्चधा प्रतिपादयन्नाह मू. (४८६) पंच निही पं० २०-पुत्तनिही मित्तनिही सिप्पनिही धणणिही धन्नणिही। वृ, 'पंच निही'त्यादि सुगमं, नवरं नितरां धीयते-स्थाप्यते यस्मिन् स निधिःविशिष्टरत्नसुवर्णादिद्रव्यभाजनंतत्र निधिरिवनिधिः पुत्रश्चासौनिधिश्चपुत्रनिधिः, द्रव्योपार्जकत्वेन पित्रोनिहिहेतुत्वादत एव स्वभावेन च तयोरानन्दसुखकरत्वाच्च, अत्रोक्तंपरैः॥१॥ "जन्मान्तरफलं पुण्यं, तपोदानसमुद्भवम् । सन्ततिः शुद्धवंश्या हि, परत्रेह च शर्मणे" इति, तथा मित्रं-सुहृत्तच्च तन्निधिश्चेति मित्रनिधिरर्थकामसाधकत्वेनान्दहेतुत्वात्, तदुक्तम्॥१॥ "कुतस्तस्यास्तुराज्यश्रीःस, कुतस्तस्य मृगेक्षणाः । यस्य शरं विनीतंच, नास्ति मित्रं विचक्षणम?" शिल्पं-चित्रादिविज्ञानंतदेव निधिः शिल्पनिधिः, एतच्च विद्योपलक्षणं, तेन विद्या निधिरिव पुरुषार्थसाधनत्वाद, अत्रोक्तम्॥१॥ “विद्यया राजपूज्यः स्याद्विद्यया कामिनीप्रियः। विद्या हि सर्वलोकस्य, वशीकरणकार्मणम् " इति, तथाधननिधिः-कोशोधान्यनिधिः-कोष्ठागारमिति।अनन्तरं निधिरुक्तः, सचद्रव्यतः पुत्रादिवितस्तुकुशलानुष्ठानरूपंब्रह्म, तत्पुनः शौचतयाबिभणिषुःप्रसङ्गेन शेषाण्यपिशौचान्याह मू. (४८७) सोए पंचविहे पं० तं०-पुढविसोते आउसोते तेउसोते मंतसोते बंभसोते 'पंचविहे'त्यादि व्यक्तं, नवरंशुचेर्भावः शौचं, शुद्धिरित्यर्थः, तच्च द्विधा-द्रव्यतो भावतश्च, तत्राद्यं चतुष्टयं द्रव्यशौचं, पञ्चमं तुभावशीचं, तत्र पृथिव्या-मृत्तिकया शौचं-जुगुप्सितमलगन्धयोरपनयनं शरीरादिभ्यो घर्षणोपलेपनादिनेति पृथिवीशौचं, इह च पृथिवीशौचाभिधानेऽपि यत्परैस्तल्लक्षणमभिधीयते, यदुत॥१॥ _ 'एका लिंगे गुदे तिम्रस्तथैकत्र करे दश। उभयोः सप्त विज्ञेया, मृदः शुद्धौ मनीषिभिः ॥२॥ एतच्छौचं गृहस्थानां, द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां, यतीनां च चतुर्गुणम् इति, तदिह नाभिमतं, गन्धाधुपघातमात्रस्य शौचत्वेन विवक्षितत्वात्, तस्यैव च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy