________________
३६६
स्थानाङ्ग सूत्रम् ५/३/४८४
॥३॥ निव्वाघायववाइ दारुगदंडुण्णियाहिं दसियाहिं।
___ अववाइय वाघायं उट्टीसणवच्चमुंजमयं" ति श्रमणानां यथा वस्त्ररजोहरणे धर्मोपग्रहके तथा पराण्यपि कायादीनि, तान्येवाहमू. (४८५) धम्मं चरमाणस्स पंच निस्साठाणा पं०-छक्काए गणे राया गिहवती सरीरं।
वृ. 'धम्म'मित्यादि, धर्म-श्रुतचारित्ररूपं, णमित्यलङ्कारे चरतः-सेवमानस्य पंच निश्रास्थानानि-आलम्बनस्थानानि उपग्रहहेतव इत्यर्थः, षट्कायाः-पृथिव्यादयः, तेषां च संयमोपकारिताऽऽगमप्रसिद्धा, तथाहि-पृथिवीकायमाश्रित्योक्तम्॥१॥ "ठाणनिसीयतुयट्टण उच्चाराईण गहण निक्खेवे ।
घट्टगडगलगलेवो एमाइ पओयणं बहुहा" ॥२॥ अप्कायमाश्रित्य-परिसेयपियणहत्याइधोयणे चीरधोयणे चेव ।
आयमणभाणधुवणे एमाइ पओयणं बहुहा ॥३॥ तेजःकार्य प्रति-ओयण वंजणपाणग आयामुसिणोदगंच कुम्मासो ।
___ डगलगसरक्खसूइय पिप्पलमाई य उवओगो ॥४॥वायुकायमधिकृत्य-दइएण बस्थिणा वा पओयणं होज वाउणा मुणिणो।
गेलनम्मिवि होज्जा सचित्तमीसे परिहरेज्जा ॥५॥ वनस्पति प्रति-संथारपायदंडगखोमियकप्पा य पीठफलगाइ।
ओसहभेसज्जाणिय एमाइ पओयणं तरुसु
सकाये पञ्चेन्द्रियतिरश्च आश्रित्योक्तंचम्मट्ठिदंत नहरोमसिंगअमिलाइछगणगोमुत्ते ।
खीरदहिमाइयाणं पंचेदियतिरियपरिभोगे एवंविकलेन्द्रियमनुष्यदेवानामप्युपग्रहकारितावाच्या,तथागणो-गच्छाःतस्य चोपग्राहिता'एक्कस्स कओ धम्मो' इत्यादिगाथापूगादवसेया, तथा ॥१॥ “गुरुपरिवारो गच्छो तत्थ वसंताण निञ्जरा विउला ।
विणायाउ तहा सारणमाईहिं न दोसपडिवत्ती ॥२॥ अन्नोन्नावेक्खाए जोगंमितहिं तहिं पयट्टतो।
नियमेण गच्छवासी असंगपयसाहगो नेओ" इति, तथा राजा-नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद्, उक्तं च लोकिकैः॥१॥ “क्षुद्रलोकाकुले लोके, धर्म कुर्युः कथं हि ते।
क्षान्ता दान्ता अहंतारश्चेद्राजा तान रक्षति ॥२॥ (तथा) 'अराजके हि लोकोऽस्मिन्, सर्वतो विद्रुते भयात् ।
रक्षार्थमस्य सर्वस्य, राजानमसृजत् प्रभुः" इति, तथा गृहपतिः-शय्यादाता, सोऽपि निवास्थानं, स्थानदानेन संयमोपकारित्वात, तदुक्तम्॥१॥ "धृतिस्तेन दत्ता मतिस्तेन दत्ता, गतिस्तेन दत्ता सुखमं तेन दत्तम् ।
गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो, मुनिभ्यो मुदा येन दत्तो निवासः"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org