SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३६२ स्थानाङ्ग सूत्रम् ५/३/४८२ शब्दे रागादिखण्डनाच्छोत्रेन्द्रियार्थमुण्ड इति भाव इत्येवं सर्वत्र, तथा क्रोधे मुण्डः क्रोधमुण्डस्तच्छेदनादेवमन्यत्रापि, तथा शिरसि शिरसा वा मुण्डः शिरोमुण्ड इति । इदं च मुण्डितत्वं बादरजीवविशेषाणां भवतीति लोकत्रयापेक्षया बादरजीवकायान् प्ररूपयन् सूत्रत्रयमाह मू. (४८२) अहेलोगे गंपंच बायरा पं० तं०- पुढविकाइया आउ० वाउ० वणस्सइ ओराला तसापाणा ? उड्डलोगे णं पंच बायरा पं० तं० एवं तं चैव २, तिरिया लोगे णं पंच बायरा पं० तं०एगिंदिया जाव पंचिदिया ३, । पंचविधा बायर तेउकाइया पं० तं० - इंगाले जाला मुम्मुरे अच्ची अलाते ?, पंचविधा बादर वाउकाइया पं० तं०- पाईणपडिवाते पडीणवाते दाहिणवाते उदीणवाते विदिसवा २, पंचविधा अचिता वाउकाइया पं० तं०- अक्कंते धंते पीलिए सरीरीनुगते संमुच्छिमे ३ । वृ. 'अहे 'त्यादि सुगमं, नवरमधऊद्धर्वलोकयोस्तैजसा बादरा न सन्तीति पंच ते उक्ताः, अन्यथा षट्स्युरिति, अधोलोकग्रामेषु ये बादरास्तैजसास्ते अल्पतया न विवक्षिताः, ये चोर्द्धकपाटद्वये ते उत्पत्तुकामत्वेनोत्पत्तिस्थानास्थित्वादिति, 'ओरालतस' त्ति त्रसत्वं तेजोवायुष्वपि प्रसिद्धं अतस्तद्वयवच्छेदेन हीन्द्रियादिप्रतिपत्यर्थमोरालग्रहणं, ओरालाः स्थूला एकेन्द्रियापेक्षयेति, एकमिन्द्रियं करणं स्पर्शनलक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच्च येषां ते एकेन्द्रियाः-पृथिव्यादयः, एवं द्वीन्द्रियादयोऽपि, नवरमिन्द्रियविशेषो जातिविशेषश्च वाच्य इति । एकेन्द्रिया इत्युक्तमिति तान्पञ्चस्थानकानुपातिनो विशेषतः सूत्रत्रयेणाह 'पंचविहे' त्यादि, अङ्गारः प्रतीतः ज्वाला-अग्निशिखा छिन्नमूला सैवाच्छिन्नमूलाऽर्द्धिः मुर्मुरो-भस्ममिश्राग्निकणरूपः अलातं उल्मुकमिति। प्राचीनवातः पूर्ववातः प्रतीचीनः - पश्चिमः दक्षिणः प्रतीतः उदीचीनः - उत्तरः तदन्यस्तु विदिग्वात इति । आक्रान्ते पादादिना भूतलादौ यो भवति स आक्रान्तो यस्तु ध्माते ध्त्यदौस ध्मातः जलर्द्रवस्त्रेनिष्पीड्यमाने पीडितः उद्गारोच्छ्वासादिः शरीरानुगतः व्यजनादिजन्यः सम्मूर्च्छिमः, एते च पूर्वमचेतनास्ततः सचेतना अपि भवन्तीति । पूर्वं पञ्चेन्द्रिया उक्ता इति पञ्चेन्द्रियविशेषाहनाह, अथवा अनन्तरं सचेतनाचेतना वायव उक्ताः, तांश्च रक्षन्ति निर्ग्रन्था एवेति तानाह मू. (४८३) पंच निग्गंधा पं० तं० पुलाते बउसे कुसीले निग्गंथे सिणाते १, पुलाए पंचविहे पं० तं०-नाणपुलाते दंसणपुलाते चरित्तपुलाते लिंगपुलाते अहासुहुमपुलाते नामं पंचमे २, बउसे पंचविधे पं० तं० आभोगवउसे अनाभोगवउसे संवुडबस्से असंवुडबउसे अहासुहुमबउसे नामं पंचमे ३, कुसीले पंचविधे पं० तं०- नाणकुसीले दंसणकुसीले चरित्तकुसीले लिंगकुसीले अहासुमकुसीले नामं पंचमे ४, नियंठे पंचविहे पं० तं० पढमसमयनियंठे अपढमसमयनियंठे चरिमसमयनियंठे अचरिमसमनियंठे अहासुहमनियंठे ५, सिणाते पंचविधे पं० तं० -अच्छवी १ असबले २ अकम्मंसे ३ संसुद्धनाणदंसणधरे अरहा जिणे केवली ४ अपरिस्सावी ५, ६ वृ. 'पंच नियंठे' त्यादि, सूत्रष्टं सुगमं, नवरं ग्रन्थादाभ्यन्तरान्मिथ्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जाद्धनादेर्निर्गता निर्ग्रन्थाः, पुलाकः तंदुलकणशून्या पलंजि तद्वद् यः तपः श्रुतहेतुकायाः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy