SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३६३ स्थानं-५, - उद्देशकः-३ सङ्घादिप्रयोजने चक्रवत्यदिरपि चूर्णनसमर्थायाः लब्धरूपजीवनेन ज्ञानाद्यतिचारासेवनेन वा संयमसाररहितः सपुलाकः, अत्रोक्तम्-“जिनप्रणीतादागमात्सदैवाप्रतिपातिनोज्ञानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थपुलाका भवन्ती"ति, बकुशः शबलः कर्बुर इत्यर्थः,शरीरोपकरणविभूषानुवर्तितयाशुद्धयशुद्धिव्यतिकीर्णचरण इति, अयमपि द्विविधः, यदाह-"मोहनीयक्षयं प्रति प्रस्थिताः शरीरोपकरणविभूषानुवर्तिनःतत्रशरीरेअनागुप्तव्यतिकरणेकरचरणवदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्यो विदूषिकामलाद्यपनयनंदन्तपावनलक्षणंकेशसंस्कारंच देहविभूषार्थमाचरन्तःशरीरवकुशाः, उपकरणबकुशास्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिचोक्षवासःप्रियाः पात्रदण्डकाद्यपितैलमात्रयोज्जवलीकृत्य विभूषार्थमनुवर्तमाना बिभ्रति, उभयेऽपिचऋद्धिं प्रभूतवस्त्रपात्रादिकांख्यातिंच गुणवन्तो विशिष्टाः साधव इत्यादिप्रवादरूपांकामयन्ते, सातगौरवमाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः, अविविक्तपरिवाराः-नासंयमात् पृथग्भूतः घृष्टजङ्घः तैलादिकृतशरीरमृजः कतरिकाकल्पितकेशश्च परिवारो येषामिति भावः, बहुच्छेदशबलयुक्ताः-सर्वदेशच्छेदाह्रतिचारजनितशबलत्वेन युक्ता निर्ग्रन्थबकुशा इति" तथा कुत्सितं उत्तरगुणप्रतिषेवया सजवलनकषायोदयेन वा दूषितत्वात् शीलंअष्टादशशीलाङ्गसहनभेदं यस्यस कुशील इति, एषोऽपि द्विविधएव, अत्राप्युक्तम्-"द्विविधाः कुशीला:-प्रतिसेवनकुशीलाः कषायकुशीलाच, तत्र ये नैर्ग्रन्ध्यं प्रति प्रस्थिताः अनियतेन्द्रियाः कथञ्चित्किञ्चिदेवोत्तरगुणेषु-पिण्डविशुद्धिसमितिभावनातपः प्रतिमाभिग्रहादिषु विराधयन्तः सर्वज्ञाज्ञोल्लङ्घनमाचरन्ति ते प्रतिसेवनाकुशीलाः, येषां तु संयतानामपिसतां कथञ्चित्सअवलनकषाया उदीर्यन्ते ते कषायकुशीलाः," निर्गतो ग्रन्थान्मोहनीया ख्यात् निर्ग्रन्थः क्षीणकषाया उपशान्तमोहो वा, क्षालितसकसघातिकर्मलपटलत्वात् स्नात इव स्नातः स एव स्नातकः, सयोगोऽयोगो वा केवलीति । अधुनैत एव भेदत उच्यन्ते, तत्रपुलाक इत्यासेवापुलाकः पञ्चविधो, लब्धिपुलाकस्यैकविधकत्वात्, तत्र स्खलितमिलितादिभिरतिचारैनिमाश्रित्यात्मानं असारं कुर्वन् ज्ञानपुलाकः, एवं कुष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणात् निष्कारणेऽन्यलिङ्गकरणाद्वा लिङ्गपुलाकः, किश्चित्प्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाको नाम पञ्चम इति । बकुशो द्विविधोऽपि पञ्चविधः, तत्रशरीरोपकरणभूषयोः सञ्चिन्त्यकारी आभोगवकुशः, सहसाकारी अनाभोगबकुशः, प्रच्छन्नकारी संवृतबकुशः, प्रकटकारी असंवृतबकुशः, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वं, किञ्चित्प्रमादी अक्षिमलाद्यपनयन् वा यथासूक्ष्मबकुशो नाम पञ्चम इति, कुशीलो द्विविधोऽपि पञ्चविधः, तत्र ज्ञानदर्शनचारित्रलिङ्गान्युपजीवन् प्रतिषेवणतो ज्ञानादिकुशीलो, लिङ्गस्थाने क्वचित्तपोश्यते, तथाअयं तपश्चरतीत्येवमनुमोद्यमानो हर्षं गच्छन् यथासूक्ष्मकुशीलःप्रतिषेवणयैवेति, कषायकुशीलोऽप्येवंनवरंक्रोधादिना विद्याचादिज्ञानंप्रयुञ्जानो ज्ञानकुशीलः, दर्शनग्रन्थं प्रयुञ्जानो दर्शनतः शापंददत् चारित्रतः कषायैर्लिङ्गान्तरं कुर्वन् लिङ्गतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy