SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ५/२/४७९ उक्तम्-"पंचत्थिकायमइयं लोगमणाइनिहणं ।" इति, अथैतत्स्वरूपस्योक्तस्य प्रपञ्चानायानुक्तस्य चाभिधानायाह 'समासतः' सङ्केपतः पञ्चविधो, विस्तरस्त्वन्यथापि स्यात, कथमित्याह-'द्रव्यतो' द्रव्यतामधिकृत्य क्षेत्रतः' क्षेत्रमाश्रित्य एवं कालतोभावतश्च ‘गुणतः' कार्यतः कार्यमाश्रित्येत्यतः, तत्र द्रव्यतोऽसावेकं द्रव्य तथाविधैकपरिणामादेकसङ्ख्याया एवेह भावात्, क्षेत्रतो लोकस्य प्रमाणं लोकप्रमाणं-असङ्ख्येयाः प्रदेशास्तत्परिमाणमस्येति लोकप्रमाणमात्रः, कालतो न कदाचित्रासीदित्यादि कालत्रयनिर्देशः, एतदेव सुखार्थं व्यतिरेकेणाह-अभूच भवति च भविष्यति चेति, एवं त्रिकालभावित्वाध्ध्रुवो, मा भूदेकसर्गापेक्षयैव ध्रुवत्वमिति सर्वदैवंभावानियतो, मा भूदनेकसगपिक्षयैव नियतत्वमितिप्रलयाभावात्शाश्वतः, एवं सदाभावेनाक्षयः, पर्यायापगमेऽप्यनन्तपर्यायतयाऽव्ययः, एवमुभयरुपतया अवस्थितः, अनेन प्रकारेणौधतो नित्य इति पूज्यव्याख्या, अथवा यत एव त्रैकालिकोऽसावत एव ध्रुवोऽवश्यंभावित्वादादित्योदयवत, नियत एकरूपत्वात्,शाश्वतः प्रतिक्षणंसत्त्वादतएवाक्षयोऽवयविद्रव्यापेक्षयाअक्षतो वा परिपूर्णत्वात्, अव्ययोऽवयवापेक्षया अवस्थितो निश्चलत्वात्, तात्पर्यमाह-नित्य इति, अथवा इन्द्रशक्रादिशब्दवत्पर्यायशब्दा ध्रुवादयो नानादेशजविनेयप्रतिपत्यर्थमुपन्यस्ता इति, तथागुणतः गमनं-गतिस्तदगुणो-गतिपरिणामपरिणतानांजीवपुद्गलानांसहकारिकारणभावतः कार्यमस्यानांजलस्येवयस्यासौगमनगणोगमने वागण:-उपकारोजीवादीनांयस्मादसौ गमनगुणइति, एवंचेवत्तियथाधर्मास्तिकायोऽधीतएवमधर्मास्तिकायोऽपीति, नवरंकेवलमेतावाविशेषोयदुत-'ठाणगुणेत्तिस्थान-स्थितिर्गुणः-कार्ययस्यसस्थानगुणः,सहि स्थितिपरिणतानां जीवादीनामपेक्षाकारणतयास्थानं कार्यंकरोतिस्थानेवा-स्थितौ गुणः-उपकारो यस्मात् सतथा, 'लोगालोगे त्यादिलोकालोकयोस्तद्वयकत्योर्यप्रमाणं-अनन्ताःप्रदेशास्तदेवपरिमाणस्येति लोकालोकप्रमाणमात्रः, अवगाहना-जीवादीनामाश्रयो गुणः-कार्ययस्य तस्यां वा गुणः-उपकारो यस्मात्सोऽवगाहनागुणः, अनंताइंदव्वाईतिअनन्ताजीवास्तेषांचप्रत्येकंद्रव्यत्वादिति, 'अरूवी जीवे'त्ति जीवास्तिकायोऽमूर्तस्था चेतनावानिति, उपयोगः-साकारानाकारभेदं चैतन्यं गुणोधर्मो यस्य स तथा, शेषं तदेव यदधस्तिकायादीनामिति, लोकप्रमाणो जीवास्तिकायः पुद्गलास्तिकायश्च, तयोस्तत्रैवभावादिति, गहणगुणे'त्तिग्रहणं-औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्त्वात् परस्परसम्बन्धलक्षणं वा तद्गुणो-धो यस्य स तथा। . अनन्तरमस्तिकाया उक्ता इति तद्विशेषस्य जीवास्तिकायस्य सम्बन्धिवस्तून्याह अध्ययनपरिसमाप्तिं यावदिति महासम्बन्धः, तत्र पंचे'त्यादि गतिसूत्रं कण्ठ्यं० मू. (४८०) पंच गतीतो पं०-निरयगती तिरियगती मणुयगती देवगती सिद्धिगती। .नवरंगमनंगतिर्गम्यतइतिवागतिः-क्षेत्रविशेषः २ गम्यतेवाअनयाकर्मपुद्गलसंहत्येति गतिः-नामकर्मोत्तरप्रकृतिरूपा ३ तत्कृता वा जीवावस्थेति ४, तत्र निरये-नरके गति ४ . निरयश्चासौ गतिश्चेति वा २ निरयप्रापिका वा गतिः ३ निरयगतिः, एवं तिर्यक्षु ४ तिरश्चां २ तिर्यकत्वप्रसाधिका वागति३स्तिर्यग्गतिः,एवं मनुष्यदेवगती, सिद्धी गतिः सिद्धिश्चासौ गतिश्चेति वा सिद्धिगतिः, गतिरिह नामप्रकृतिनास्तीति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy