SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३५९ स्थानं-५, उद्देशकः २ गामित्वमक्षीणमहानसिकत्वं वैक्रियकरणमाहारकत्वं तेजोनिसर्जनं पुलाकत्वं क्षीराश्रवत्वं मध्वाश्रवत्वं सर्पिराश्रवत्वं कोष्ठबुद्धिता बीजंजुद्धिता पदानुसारिता सम्भिन्नश्रोतृत्वं-युगपत्सर्वशब्दश्रावितेत्यर्थः पूर्वधरता अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं अर्हत्ता गणधरता चक्रवर्तिता बलदेवता वासुदेवता चेत्येवमादिका, उक्तंच॥१॥ "उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ। एवं परिणामवसा लद्धीओ होति जीवाणं ।।" इति, तदेवंरूपा प्रचुरा-प्रशस्ता अतिशायिनी वा ऋद्धिर्विद्यते येषां ते ऋद्धिमन्तः भावितःसद्वासनया वासितः आत्मा यैस्ते भावितात्मानोऽनगारा इति, एतेषां च ऋद्धिमत्त्वमामर्षेषध्यादिभिरहंदादीनां तु चतुर्णा यथासम्भवमामर्षोषध्यादिनाऽहत्त्वादिना चेति ॥ स्थानं-५ - उद्देशकः २ - समाप्तः - स्थानं-५-उद्देशकः३:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतंतृतीयआरभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरोद्देशके जीवधाः प्रायः प्ररूपिताः, इह त्वजीवजीवधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (४७९) पंच अस्थिकाया पं० २०-धम्मस्थिकाते अधम्मत्थिकाते आगासत्थिकाते जीवत्थिकाते पोग्गलत्थिकाए, धम्मत्थिकाए अवन्ने अगंधे अरसे अफासे अरूवी अजीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविधे पं० तं०-दव्बओ खित्तओ कालओ भावओ गुणओ, दव्वओणं धम्मस्थिकाए एग दव्वं खेत्ततो लोगपमाणमेत्ते कालओन कयाति नासी न कयाइन भवति न कयाइ न भविस्सइत्ति भुविं भवति य भविस्सतितधुवे नितिते सासते अक्खए अव्वते अवहितै निच्चे भावतो अवन्ने अगंधे अरसे अफासे गुणतो गमणगुणे य १, अधम्मत्थिकाए अवन्ने एवं चेव, नवरं गुणतो ठाणगुणो २, आगासस्थिकाए अवन्ने एवं चैव नवरं खेत्तओ लोगालोगपमाणमित्ते गुणतो अवगाहणागुणे, सेसंतंचेव ३, जीवस्थिकाएणं अवन्ने एवं चेव, नवरं दव्वओ णं जीवस्थिगाते अनंताई दव्वाइं, अरूवि जीवे सासते, गुणतो उवओगगुणे सेसंतं चेव ४, पोग्गलस्थिगाते पंचवन्ने पंचरसे दुग्गंधे अट्ठफासे रुवी अजीवे सासते अवहितै जाव दव्यओ णं पोग्गलत्थिकाए अनंताई दव्वाइं खेत्तओ लोगपमाणमेते कालतो न कयाइ नासि जाव निच्चे भावतो वनमंते गंधमंते रसमंते फासमंते, गुणतो गहणगुणे। वृ. 'पंचेत्यादि, अस्य चायमभिसम्बन्धः-अनन्तरसूत्रे जीवास्तिकायविशेषा ऋद्धिमन्त उक्ताः इह त्वसङ्खयेयानन्तरप्रदेशलक्षणऋद्धिमन्तःसमस्तास्तिकायाउच्यन्त इत्येवंसम्बन्धस्यास्य व्याख्याप्रथमाध्ययनवदनुसतव्या, नवरंधर्मास्तिकायादयः किमर्थमित्थमेवोपन्यस्यंतइति, उच्यते, धर्मास्तिकायादिपदस्य माङ्गलिकत्वात् प्रथमं धर्मास्तिकायोपन्यासः पुनर्द्धमस्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्य पुनस्तदाधारत्वादाकाशास्तिकायस्य पुनस्तदाधेयत्वाञ्जीवास्तिकायस्य पुनस्तदुपग्राहकत्वात् पुद्गलास्तिकायस्येति, धर्मास्तिकायादीनां क्रमेण स्वरूपमाह-- ___ 'धम्मत्थिकाए'त्यादि वर्णगन्धरसस्पर्शप्रतिषेधाद् 'अरूवित्ति रूपं-मुर्तिवर्णादिमत्त्वं तदस्यास्तीति रूपी न रूपी अरूपी अमूर्त इत्यर्थः, तथा अजीवः-अचेतनः, शाश्वतः प्रतिक्षणं. सत्ताऽऽलिङ्गितत्वादवस्थितः अनेन रूपेण नित्यत्वादिति, लोकस्यांशभूतं द्रव्यं लोकद्रव्यं, यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy