SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ स्थानं -१,-उद्देशकः सचप्राणातिपातो द्रव्यतभावभेदात् द्विविधो, विनाशपरितापसङ्लेशभेदात् त्रिविधोवा, ॥१॥ (आह च) “तप्पज्जायविनासो दुक्खुप्पाओ य संकिलेसो य । एस वहो जिणभणिओ वज्जेयब्बो पयत्तेणं "ति, अथवामनोवाकायैःकरणकारणानुमतिभेदानवधा,पुनःसक्रोधादिभेदात्षट्त्रिशद्विधो वेति १, तथा मृषा-मिथ्या वदनं वादो मृषावादः, स च द्रव्यभावभेदात् द्विधा, अभूतोद्भावनादिभिश्चतुर्धावा, तथाहि-अभूतोद्भावनं यथा सर्वगत आत्मा,भूतनिह्नवो नास्त्यात्मा, वस्त्वन्तरन्यासो यथा गौरपि सनश्वोऽयमिति, निन्दा च यथा कुष्ठी त्वमसीति २, तथा अदत्तस्य-स्वामिजीवतीर्थंकरगुरुभिरवितीर्णस्याननुज्ञातस्य सचित्ताचित्तमित्रभेदस्य वस्तुनः आदान-ग्रहणमदत्तादानं, चौर्यमित्यर्थः, तच्च विविधोपाधिवशादनेकविधमिति, तथा मिथुनस्य-स्त्रीपुंसलक्षणस्य कर्ममैथुनम्-अब्रह्म, तत्मनोवाक्कायानां कृतकारितानुमतिभिरौदारिकवैक्रियशरीरविषयाभिरष्टादशधा विविधोपाधितो बहुविधतरं वेति ४, तथा परिगृह्यते-स्वीक्रियत इति परिग्रहः, बाह्याभ्यन्तरभेदात् द्विधा, तत्र बाह्यो धर्मसाधनव्यतिरेकेणधनधान्यादिरनेकधा, अभ्यन्तरस्तुमिथ्यात्वाविरतिकषायप्रमादादिरनेकधा, परिग्रहणं वा परिग्रहो मूछेत्यर्थः ५, तथाक्रोधमानमायालोभाः कषायमोहनीयकर्मपुद्गलोदयसम्पाद्या जीवपरिणामा इति, एते चानन्तानुबन्ध्यादिभेदतोऽसङ्ख्याताध्यवसायस्थानभेदतो वा बहुविधाः, तथा 'पेले'त्ति प्रियस्य भावः कर्म वा प्रेम, तच्चानभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रमिति १०, तथा 'दोसे'त्ति द्वेषण द्वेषः, दूषणं वा दोषः, स चानभिव्यरक्तक्रोधमानलक्षणभेदस्वभावोऽप्रीतिमात्रमिति ११, 'जाव'त्ति कलहे अब्मक्खाणे पेसुन्ने' इत्यर्थः तत्र कलहो-राटी १२ अभ्याख्यानं-प्रकटमसदोषारोपणं १३ पैशून्यं-पिशुनकर्म प्रच्छन्नं सदसद्दोषाविर्भावनं १४, परेषां परिवादः परपरिवादो विकत्थनमित्यर्थः १५, अरतिश्च तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणो रतिश्चतथाविधानन्दरूपाअरतिरति इत्येकमेबविवक्षितं, यतः क्वचन विषयेयारतिस्तामेव विषयान्तरापेक्षयाअरर्तिव्यपदिशन्त्येवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति १६, तथा मायामोस'त्ति माया च-निकृतिम॒षा च-मृषावादो मायया वा सह मृषा मायामृषा प्राकृतत्त्वान्मायामोसं, दोषद्वययोगः, इदं च मानमृषादिसंयोगदोषोपलक्षणं, वेषानन्तरकरणेन लोकप्रतारणमित्यन्ये, प्रेमादीनि च बहुविधानि विषयभेदेन अध्यवसायस्थानभेदतो वा १७, मिथ्यादर्शनं-विपर्यस्ता दृष्टिः, तदेव तोमरादिशल्यमिव शल्यं दुःखहेतुत्वात् मिथ्यादर्शनशल्यमिति, मिथ्यादर्शनञ्च पञ्चधा-अभिग्रहिकानभिग्रहिकाभिनिवेशिका- नाभोगिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy