________________
३२
स्थानाङ्ग सूत्रम् १/-/४७
रस्ते - आस्वाद्यते इति रसः - रसनेन्द्रियविषयः, स्पृश्यते - छुप्यत इति स्पर्शः-स्पर्शनकरणविषयः,
शब्दानां चैकत्वं सामान्यतः सजातीयविजातीयव्यावृत्तरूपापेक्षया वा भावनीयं । शब्दभेदावाह- 'सुभिसद्दि' त्ति शुभशब्दा मनोज्ञा इत्यर्थः, 'दुटिम' त्ति अशुभो मनोज्ञो यो न भवतीति, एवं च शब्दान्तरमत्रान्तर्भूतमवसेयम्,
एवं रूपव्याख्यानेऽपि, सुरूपादयश्चतुर्द्दश शुक्लान्ता रूपभेदा, तत्र सुरूपं मनोज्ञरूपमितरहूरूपमिति ।
दीर्घम् - आयततरं र्हस्वं-तदितरद्, वृत्तादयः पञ्च स्कन्धसंस्थानभेदाः, तत्र वृत्तसंस्थानं मोदकवत्, तच्च प्रतरघनभेदात् द्विधा, पुनः प्रत्येकं सभविषमप्रदेशावगाढमिति चतुर्द्धा, एवं च शेषाण्यपि, 'तं से' त्ति तिस्रोऽनयः- कोट्यो यस्मिंस्तत् त्र्यनं-त्रिकोणम्, 'चतुरंसे' त्ति चतोस्रोऽसयो यस्य तत्तथा चतुष्कोणमित्यर्थः, तथा 'पिहुले' त्ति पृथुलं विस्तीर्णम्, अन्यत्र पुनरिह स्थाने आयतग्रभिधीयते, तदेव चेह दीर्घ ह्रस्वपृथुलशब्दैर्विभज्योक्तम्, आयतधर्मत्वादेषां तच्चायतं प्रतरघनश्रेणिभेदात् त्रिधा, पुनरेकैकं समविषमप्रदेशमिति षोढा, यच्चायतभेदयोरपि ह्रस्वदीर्घयोरादावभिधानं तद्वृ त्तादिषु संस्थानेष्वायतस्य प्रायो वृत्तिदर्शनार्थं, तथाहि - दीर्घायतः स्तंभो वृत्तस्त्र्यम्नः चतुरश्चेत्यादि भावनीयम्, विचित्रत्वाद्वा सूत्रगतेरेवमुपन्यास इति, 'परिमंडले' त्ति परिमण्डलसंस्थानं वलयाकारं प्रतरघनभेदाद् द्विविधमिति,
"
रूपभेदो वर्णः, स च कृष्णादिः पञ्चधा प्रतीत एव, नवरं हारिद्रः -पीतः, कपिशादयस्तु संसर्गजा इति न तेशामुपन्यासः,
गन्धोद्वेधा सुरभिर्दुरभिश्च तत्र सौमुख्यकृत्सुरभिर्वैमुख्यकृत् दुरभि, साधारणपरिणामोऽस्पष्ट दुर्ग्रह इति संसर्गजत्वादेव नोक्त इति,
रसः पञ्चधा, तत्र श्लेष्मनाशकृत् तिक्तः १ वैशद्यच्छेदनकृत्कटुकः २ अन्नरुचिस्तम्भनकृत क - षायः ३ आश्रवणक्लेदनकृदम्लः ४ हलादनबृंहणकृन्मधुरः ५ संसर्गजो लवण इति नोक्त इति,
स्पर्शोऽष्टविधः, तत्र कर्कशः कठिनोऽनमनलक्षणः १ यावत्करणात् मृद्वादयः षडन्ये, तत्र मृदुः सन्नतिलक्षणः २ गुरुरधोगमनहेतुः ३ लघुः प्रायस्तिर्यगूर्ध्वगमनहेतुः ४ शीतो वैशद्यकृत् स्तम्भनस्वभाव; ५ उष्णो मार्द्दवपाककृ तू ६ स्निग्धः संयोगे सति संयोगिनां बन्धकारणं ७ रूक्षस्तथैवाबन्धकारणमिति ८ ।
उक्ता पुद्गलधर्माणामेकता, इदानीं पुद्गलालिङ्गितजीवाप्रशस्तधर्माणामष्टादशानां पापस्थानकाभिधानानां 'एगे पाणाइवाए' । इत्यादिना ग्रन्थेन 'दंसणसल्ले' इत्येतदन्तेन तामेवाहमू. (४८) एगे पाणातिवाए जाव एगे परिग्गहे। एगे कोधे जाव लोभे । एगे पेज्जे ण्गे दोसे जाव एगे परपरिवाए। एगा अरतिरती। एगे मायामोसे। एगे मिच्छादंसणसल्ले ।
वृ. तत्र प्राणाः - उच्छासदयस्तेषामतिपातनं प्राणवता सह वियोजनं प्राणातिपातो हिंसेत्यर्थः, ।। १ ।।(उक्तञ्च-)“पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमधान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा" इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org