SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ स्थान - १, - उद्देशकः ३१ स च स्वरूपतः एक एवान्यथा परमाणुरेवासौ न स्यादिति । अथवा समयादीनां प्रत्येकमनन्तानामपितुल्यरूपापेक्षयैकत्वमिति । यथा परमाणोस्तथाविधैकत्वपरिणामविशेषादेकत्वं भवति तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन् सकलबादरस्कन्धप्रधानभूतमीषप्रारभाराभिधानं पृथिवीस्कन्धं प्ररूपयन्नाह मू. (४६) एगा सिद्धी । एगे सिद्धे । एगे परिनिव्वाणे। एगे परिनिव्वुए वृ. 'एगा सिद्धी सिध्यन्ति-कृतार्था भवन्ति यस्यां सा सिद्धिः, स च यद्यपि लोकाग्रं, यत आह- "इहं बुंदिं चइत्ताणं, तत्थ गंतूण सिज्झइ"त्ति, तथापि तत्प्रत्यासत्त्येषप्रारभाराऽपि तथा व्यपदिश्यते, आह च-“बारसहिंजोयणेहिं सिद्धी सव्वट्ठसिद्धाउ"त्ति, यदिच लोकानमेव सिद्धिः स्यात् तदा कथमेतदनन्तरमुक्तम्- "निम्मलदगरयवण्णा तुसारगोक्खीरहारसरिवन्ने'त्यादि तत्स्वरूपवर्णनं घटते?,लो काग्रस्यामूर्तत्वादिति, तस्मादीषप्राग्भारा सिद्धिरिहोच्यते, साचैका, द्रव्यार्थतया पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्कन्धस्यैकपरिणामत्वात, पर्यायार्थतयात्वनन्ता, अथवा कृतकृत्यत्वं लोकाग्रमणिमादिका वा सिद्धिः, एकत्वं च सामान्यत इति।। सिद्धेरनन्तरं सिद्धिमन्तमाह-'एगे सिद्धे' सिद्धति स्म-कृतकृत्योऽभवत् सेधति स्म वाअगच्छत् अपुनरावृत्त्या लोकाग्रमिति सिद्ध;, सितं वा-बद्धं कर्माध्मातं-दग्धं यस्य स निरुक्तात्त सिद्धः-कर्मप्रपञ्चनिर्मुक्तः, सचएको द्रव्यार्थतया, पर्यायार्थतस्त्वनन्तपर्याय इति, अथवा सिद्धानां अनन्तत्वेऽपि तत्सामान्यादेकत्वम, अथवा कर्मशिल्पविद्यामन्त्रयोगागमार्थयात्राबद्धितपः कर्मक्षयभेदेनानेकत्वेऽप्यस्यैकत्त्वं सिद्धशब्दाभिधेयत्वसाम्यादिति । कर्मक्षयसिद्धस्य च परिनिर्वाणं धर्मो भवतीति तदाह 'एगे परिनिव्वाणे परि-समन्ताग्निर्वाणं-सकलकर्मकृतविकारनिराकरणतः स्वस्थीभवनं परिनिर्वाणं तदेकम्, एकदा तस्य सम्भवे पुनरभावादिति । परिनिर्वाणधर्मयोगात् स एव कर्मक्षयसिद्धः परिनिर्वृत उच्यते इति तदर्शनायाह _ एगे परिनिया' परिनिर्वृतः सर्वतः शारीरमानसास्वास्थ्यविरहित इति भावः, तदेकत्वं सिद्धस्येव भावनीयमिति । तदेतावता ग्रन्थेनैते प्रायो जीवधा एकतया निरूपिताः, इदानीं जीवोपग्राहकत्वात्पुद्गलानांतल्लक्षणाजीवधा ‘एगे सद्दे' इत्यादिना जाव लुक्खे' इत्येतदन्तेन ग्रन्थेनैकतयैव दयन्ते, पुद्गलादीनांतुसत्ता केषाञ्चिदनुमानतोऽवसीयते घटादिकार्योपलब्धेः केषाञ्चित्सांव्यवहारिकप्रत्यक्षत इति ।। मू. (७) एगे सद्दे । एगे रूवे । एगे गंधे। एगे रसे। एगे फासे । एगे सुब्भिसद्दे । एगे दुब्भिसद्दे । एगे सुरूवे । एगे दुरूवे । एगे दीहे । एगे हस्से। एगे बढ़े। एगे तंसे । एगे चउरसे । एगे पिहुले । एगे परिमंडले एगे किण्हे । एगे णीले । एगे लोहिए। एगे हलिद्दे । एगे सुक्किल्ले । एगे सुब्भिगंधे । एगे दुब्भिगंधे। एगे तिते। एगे कडुए। एगे कसाए । एगे अंबिले । एगे महुरे। एगे कक्खडे जाव लुक्खे वृ. तत्र शब्दादिसूत्राणि सुगमानि, नवरं शब्दयते-अभिधीयते अनेनेति शब्दो-ध्वनिः श्रोत्रेन्द्रियविषयः रूप्यते-अवलोक्यत इति रूपम्-आकारश्चक्षुर्विषयः, घ्रायते-सिङ्घयते इति गन्धो-घ्राणविषयः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy