SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् १/-/४३ क्षयोपशमो वा ज्ञातिर्वा ज्ञानम् आवरणद्वयक्षयाद्याविर्भत आत्मपर्यवविशेषः सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञानपञ्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा, तथाहि लब्धितो बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्याजीवानामिति, ननु दर्शनयस्य ज्ञानव्यपदेशत्वमयुक्तं, विषयभेदाद्, उक्तञ्च - "जं सामन्नरगहणं दंसणमेयं विसेसियं नाणं "त्ति, अत्रोच्यते, ईहावग्रहौ हि दर्शनं, सामान्यग्राहकत्वाद्, अपायधारणे च ज्ञानं, विशेषग्राहकत्वाद्, अथचोभयमपि ज्ञानग्रहणेन गृहीतमागमे "आभिनिबोहियनाणे अट्ठावीसं हवंति पयडीउ"त्ति वचनात् तस्मादवबोधसामान्याद्दर्शनस्यापि ज्ञानव्यपदेश्यत्वमविरुद्धमिति, ननु दर्शनं पृथगेवोपात्तमुत्तरसूत्रे तत्किमिह ज्ञानशब्देन दर्शनमपि व्यपदिष्टमिति ?, अत्रोच्यते, तत्र हि दर्शनं श्रद्धानं विवक्षितं, ज्ञानादित्रयस्य सम्यकशब्दलाञ्छितत्वे सति मोक्षमार्गत्वेन विवक्षितत्वात्, मोक्षमार्गभूतं चैतत्त्रयं श्रद्धानपर्यायेणैव दर्शनेन सहेति । 'एगे दंसणे' त्ति ६श्यन्ते श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शनं-दर्शनमोहनीयस्य क्षयः क्षयोपशमो वा, दृष्टिर्वा दर्शनं-दर्शनमोहनीयक्षयाद्याविर्भूतस्तत्त्वश्रद्धानरूप आत्मपरिणामः, तच्चोपाधिभेदादनेकविधमपि श्रद्धानसाम्यादेकम्, एकजीवस्य वैकदा एकस्यैव भावादिति, नन्ववबोधसामांन्याज्ज्ञानसम्यकत्व्योः कः प्रतिविशेषः ?, उच्यते, रुचिः सम्यकत्वं रुचिकारणं तुज्ञानं, यथोक्तम्॥१॥ ३० "नाणमवायधिईओ दंसणमिट्टं जहोग्गहेहाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ।” ति, 'चरिते' त्ति चर्यते मुमुक्षुभिरासेव्यते तदिति चर्यते वा गम्यते अनेन निर्वृताविति चरित्रं अथवा चयस्य कर्मणां रिक्तीकरणाच्चरित्रंनिरुक्तन्यायादिति चारित्रमोहनीयक्षयाद्याविर्भूत आत्मनो विरतिरूपः परिणाम इति, तदेवं वक्ष्यमाणानां सामायिकादितदानां विरतिसामान्यान्तर्भावादेकस्यैवैकदा भावाद्वेति, एतेषां च ज्ञानादीनामयमेव क्रमो, यतो नाज्ञातं श्रद्धीयते नाश्रद्धत्तं सम्यगनुष्ठीयत इति । ज्ञानादीनि ह्युत्पत्तिविगतिस्थितिमन्ति, स्थितिश्च समयादिकेति समयं प्ररूपयन्नाह मू. (४४) एगे समए । वृ. 'एगे समए' समयः - परमनिरुद्धकाल उत्पलपत्रशतत्वतिभेदध्यन्ताञ्जरत्पट्टसाटिकापाटन ध्यन्ताद्वा समयप्रसिद्धादवबोद्धव्यः, स चैक एव वर्तमानस्वरूपः, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाभावात्, अथवा असावेकः स्वरूपेण निरंशत्वादिति । निरंशवस्त्वधिकारादेवेदं सूत्रद्वयमाह - मू. (४५) एगे पएसे एगे परमाणू । वृ. 'एगे पसे एगे परमाणू' प्रकृष्टो - निरंशो धर्म्माधर्म्माकाशजीवानांदेशः अवयवविशेषः प्रदेशः स चैकः स्वरूपतः सद्वितीयत्वादौ देशव्यपदेशत्वेन प्रदेशत्वाभावप्रसङ्गादिति । 'परमाणुत्ति परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः दय्णुकादिस्कन्धानां कारणभूतः, आह च"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गञ्च " इति, ॥ १ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy