________________
स्थानं १, - उद्देशक:
-
२९
सप्तविधकाययोगप्रतिपादनमनर्थकं स्यादित्येक एव कायव्यायाम इति, एवं कृतवैक्रियशरीरस्य चक्रवर्त्यादेरप्यौदारिकं निव्यापरमेव, व्यापारवच्चेत् उभयस्य व्यापारवत्त्वे केवलिसमुद्घातवन्मिश्रयोगतेत्येवमप्येकयोगत्वमव्याहतमेवेति, तथा काययोगस्याप्यौदारिकतया वैक्रियतया चक्रमेण व्याप्रियमाणत्वे आशुवृत्तितया मनोयोगवद्यदि यौगपद्यभ्रान्तिः स्यात् तदा को दोष इति एवञ्च काययोगकत्वे सत्यौदारिकादिकाययोगाहतमनोद्रव्यान्द्रव्यसाचिव्यजातजीव व्यापाररूपत्वात् मनोयोगवाग्योगयोरेककाययोगपूर्वकतयाऽपि प्रागुक्तमेकत्वमसेवयमिति, अथवेदमेव वचनमत्र प्रमाणम्, आज्ञा ग्राह्यत्वात् अस्य, यतः119 11 "आणागेज्झो अत्थो आआणाए चेव सो कहेयव्वो । दिट्टंता दिनंतिअ कहणविहिविराहणा इह"
इति, ध्ष्टान्ताद्दार्थन्तिकोऽर्थ इत्यर्थः । ननु सामान्याश्रयैकत्वेनैव सूत्रं गमकं भविष्यतीति किमनेन विशेषव्याख्यानेनेति ?, उच्यते, नैवं, सामान्यैकत्वस्य पूर्वसूत्रैरेवाभिहितत्वादस्य पुनरुक्तत्वप्रसङ्गाद्, देवादिग्रहणसमयग्रहणयोश्च वैयर्थ्यप्रसङ्गाच्चेति । इह च देवादिग्रहणं विशिष्टवैक्रियलब्धिसम्पन्नतयैषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं शरीरवद् भविष्यतीति प्रतिपत्तिनिरासार्थं, न तु तिर्यग्नारकाणां व्यवच्छेदार्थं, ननु तिर्यग्नारका अपि वैक्रियलब्धिमन्तस्तेषामपि विक्रियायां शरीरानेकत्वेन मनःप्रभृतीनामनेकत्वप्रतिपत्तिः सम्भाव्यत एवेति तद्ग्रहणमपि न्याय्यमिति, सत्यम्, किन्तु देवादीनां विशिष्टतरलब्धितया शरीराणामत्यन्तानेकतेति तद्ग्रहणं, तथा ‘प्रधानग्रहण इतरग्रहणं भवती 'ति न्यायाददोषो, नारकादिभ्यश्च देवादीनां प्रधानत्वं प्रतीतमेवेति, एतेषां च मनः प्रभृतीनां यथाप्राधान्यकृतः क्रमः, प्रधानत्वं च बह्वल्पाल्पतरकर्मक्षयोपशमप्रभवलाभकृतमिति ।
कायव्यायामस्यैव भेदानामेकतामाह
मू. (४२) एगे उड्डाणकम्मबलवीरियपुरिसकारपरक्क मे देवासुरमणुयाणं तंसि २ समयंसि वृ. 'एगे उट्ठाणे त्यादि, उत्थानंच- चेष्टाविशेषः कर्माच भ्रमणादिक्रिया बलं च शरीरसामर्थ्य वीर्यं च जीवप्रभवं पुरुषकारश्च-अभिमानविशेषः पराक्रमश्च-पुरुषकार एव निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः, एते च वीर्यान्तराय (क्षय) क्षयोपशमसमुत्था जीवपरिणामविशेषाः, एतेषु प्रत्येकमेकशब्दो योजनीयो, वीर्यान्तरक्षयोपशमवैचित्र्यतः प्रत्येकं जघन्यादिभेदैरनेकत्वेऽप्येषामेकजीवस्यैकदा क्षयोपशममात्रया एकविधत्वादेक एव जघन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्त्वात् कार्यमात्राया इति सूत्रभावार्थ:, शेषं प्राग्वदिति पराक्रमादेश्च ज्ञानादिर्मोक्षमार्गोऽवाप्यते, यत आह
119 11
“अमुट्ठाणे विणये परक्कमे साहुसेवणाए य । सम्मर्द्दसणलंभो विरयाविरइए विरइए
33
इति, अतो ज्ञानादीनां निरूपणायाह- 'एगे नाणे' इत्यादि, अथवा धर्मप्रतिमा प्रागुदिता सा च ज्ञानादिस्वभावेति ज्ञानादीन् निरूपयन्नाह
मू. (४३) एगे नाणे एगे दंसणे एगे चरिते ।
वृ. ज्ञायन्ते परिच्छिद्यन्तेऽर्था अनेनास्मिन्नस्माद्वेति ज्ञानं ज्ञानदर्शनावरणयोः क्षयः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International