________________
३५६
स्थानाङ्ग सूत्रम् ५/२/४७६ अतिशयाः प्रज्ञप्ताः तद्यथा-आचार्योपाध्यायोऽन्तः-मध्ये 'उपाश्रयस्य वसतेः पादौ निगृह्य २' पादधूलेरुद्धूयमानाया निग्रहंवचनेन कारयित्वा यथाऽन्ये धूल्यान भ्रियन्तेतथेत्यर्थः, प्रस्फोटयित्वा आभिग्रहिकेनान्येन वा साधुना स्वकीयरजोहरणेन ऊर्णिकपादप्रोञ्छनेन वा प्रस्फोटनं कारयन् छाटयन्नित्यर्थः, प्रमार्जयन्वा शनैलूंषयन् नातिक्रामतीति,
इहच भावार्थः इत्यमास्थितः-आचार्यः कुलादिकार्येण निर्गतःप्रत्यागतउत्सर्गेणतावद्वसतेर्बहिरेव पादौ प्रस्फोटयति, अथ तत्र सागारिको भवेत्तदा वसतेरन्तःप्रस्फोटयेत, प्रस्फोटनंच प्रमार्जनविशेषस्तच चक्षुव्यापारलक्षणप्रत्युपेक्षणपूर्वकमितीह सप्त भङ्गाः, तत्र न प्रत्युपेक्षते न प्रमार्टि चेत्येकः, न प्रत्युपेक्षते प्रमार्टीति द्वितीयः, प्रत्युपेक्षते न प्रमार्थीति तृतीयः, प्रत्युपेक्षते प्रमार्टि चेति चतुर्थः, यत्तप्रत्युपेक्ष्यते प्रमाय॑ते च तद्दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं ४ दुष्प्रत्युपेक्षितं सुप्रमार्जितं वा ४ सुप्रत्युपेक्षितं दुष्प्रमार्जितं वा ६ सुप्रत्युपेक्षितं सुप्रमार्जितं वा ७ करोति, इह च सप्तमः शुद्धः शेषेष्वसमाचारीति,
यदि तु सागारिकञ्चलस्ततः सप्ततालमात्रं सप्तपदावक्रमणमात्रं वा कालं बहिरेव स्थित्वा तस्मिन् गते पादौ प्रस्फोटयेत्, उक्तंच
“अइवाइगंमि बाहिं अच्छंति मुहुत्तगं थेर"त्ति। अल्पार्थके सप्ततालमान, ततो वसती प्रविशेत, कः तेन चास्य पादौ प्रमार्जयतीत्युच्यते॥१॥ “अभिग्गहियस्स असई तस्सेव रओहरेण अन्नयरो"।
पाउंछणुन्निएण व पुंछइ उ अणनभुत्तेणं ।।" ति। वसतेरन्तः प्रविष्टस्यचार्यविधिः-विपुलायांवसतावपरिभोगस्थानेसङ्कटायांचात्मसंस्तारकावकाशे उपविष्टस्य पादौ प्रमार्जनीयौ, अन्यस्यापि गणावच्छेदकारेरयमेव विधिः, केवलमन्यो बहिश्चिरतरं तिष्ठतीति, उक्तंच॥१॥ "विपुलाए अपरिभोगे अत्तणओवासए व बेगुस्स।
एमेव यभिक्खुस्सवि नवरं बाहिं चिरयरंतु॥" एतावानैव चायमतिशयो यदसौ न चिरं बहिरास्ते, अथ चिरं तिष्ठतः के दोषा इति?, उच्यते॥१॥ “तण्हुण्हभावियस्सा पडिच्छमाणस्स मुच्छमाईया।
खद्धाइयणगिलाणे सुत्तत्यविराहणा चेव ।।" इत्यादि, शेषसाधवस्तु चिरमपि बहिस्तिष्ठन्ति न च दोषाः स्युः, जितश्रमत्वाद्, आह च॥१॥ “दसविहवेयावच्चे सग्गाम बहिं च निचवायामो ।
__ सीउण्हसहा भिक्खूण य हाणी वायणाईया।।" इत्येकोऽतिशयः, तथाऽन्तः-मध्ये उपाश्रयस्य उच्चारं-पुरीषं प्रक्षवणं मूत्रं विवेचयन्सर्व परिठापयन् विशोधयन्-पादादिलग्नस्य निरवयवत्वं कुर्वन् शौचभावेन वेति, अथवा सकृद्विवेचनं बहुशो विशोधनं, उक्तं च-- ॥१॥ “सव्वस्स छड्डुण विगिचणा उ पुयपादहत्थलग्गस्स।
फुसणधुवणा विसोहणं सइंच बहुसोय नाणतं॥” इति, नातिक्रामति, इहच भावार्थ एवं-आचार्यो नोत्सर्गतो विचारभूमिंगच्छति दोषसम्भवात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org