________________
३५७
तथाहि श्रुतवानयमित्यादिगुणतः पूर्वं वीथिषु वणिजो वुमानादभ्युत्थानादि कृतवन्तस्ततो विचारभूमौ सकृद्धिर्वाऽऽचार्यस्य गमने आलस्यात्तत्र कुर्वन्ति परामुखाश्च भवन्ति, एतच्चेतरे ध्ष्टवाशङ्कन्तेयदुता यमिदानीं पतितो वणिजानामभ्युत्थानद्यकरणादित्येवं मिध्यात्वगमनादयो दोषाः, उक्तं च
11911
स्थानं ५, उद्देशक: -२
-
॥१॥
तथा मत्सरिभ्यः सकाशान्मरणबन्धनापभ्राजनादयोऽन्येऽपि व्यवहारभाष्यादवगन्तव्या इति द्वितीयोऽतिशयः, तथा प्रभुः समर्थः इच्छा - अभिलाषो वैयावृत्त्यकरणे यदि भवेत्तदा वैयावृत्त्यंभक्तपानगवेषणवग्रहणतः साधुभ्यो दानलक्षणं कुर्यात्, अथेच्छा - अभिलाषस्तदकरणे तन्न कुर्या दिति, भावार्थस्त्वयं- आचार्यस्य भिक्षाभ्रमणं न कल्पते, यतोऽवाचि"उप्पन्ननाणा जह नो अडति, चोत्तीसबुद्धाइसया जिनिंदा । एवं गणी अट्टगुणोववेओ, सत्था व नो हिंडइ इड्डिमं तु ॥" दोषास्त्वमी
119 11
“सुयवं तवस्सि परिवारवं च वणियंतरावनुट्ठाणे । दुट्ठाणनिग्गमंमि य हाणी य परंमुहाऽवन्नो | " “गुणवंत जतो वणिया पूइंतऽन्ने विसन्नया तंमि । पड़िओत्ति अनुट्ठाणे दुविहनियत्ती अभिमुहाणं ।।"
119 11
"भारेण वेदणा वा हिंडते उच्चनीयसासो वा ।
आइयछडुणाई (प्रचुरपानकादेरापानादी छद्यादयो) गेलन्ने पोरिसीभंगो" इति, एवमादयोऽके दोषा व्यवहारभाष्योक्ताः समवसेयाः, एते च सामान्यसाधोरपि प्रायः समानास्तथापि गच्छास्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्यायमतिशय उक्तः, उक्तं च
119 11
"जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा । न हु तुंबंमि विणट्टे अरया साहारया होंति ।" त्ति
तृतीयः, तथा अन्तरुपाश्रय एका चासौ रात्रिश्चेत्येकरात्रं तद्वा द्वयो रात्र्योः समाहारो द्विरात्रं तद्वा, विद्यादिसाधनार्थमेकाकी एकान्ते वसन्नातिक्रामति, तत्र तस्य वक्ष्यमाणदोषासम्भवाद्, अन्यस्य तु तद्भावादिति चतुर्थः, एवं पञ्चमोऽपि, भावार्थश्चायमनयोः - अन्तरुपाश्रयस्य वक्षारके विष्वग्वसति बहिर्वोपाश्रयस्य शून्यगृहादिषु वसति यदि तदा असामाचारी, दोषाश्चैते-पुंवेदोपयोगेन जनरहिते हस्तकर्मादिकरणेन संयमे भेदो भवति, मर्यादा मया लङ्घितेति निर्वेदेन वैहायसादिमरणं च प्रतिपद्यत इति, इह गाथा - 119 11
॥२॥
॥३॥
"तब्मावुवओगेणं रहिए कंमादि संजमे भेदो । मेरा व लंघिया मे वेहाणसमादि निव्वेया ॥ जइविय निग्गयभावो तहावि रक्खिज्जइ स अन्नेहिं । वंसकडिल्लेवि छिन्नोऽवि वेणुओ पावए न महिं ।। वीसुं वसओ दप्पा गणियायरिए य होइ एमेव । सुत्तं पुण कारयणियं भिक्खुस्सवि कारणेऽणुन्ना ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org